________________
श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (२१९
सरसां सरोवराणां जलानि मकवा कृतार्थयामास ॥ ५५ ॥ विभोय॑तायन्त विवाहकाले, यत्पल्लवैस्तोरणमङ्गलानि । चूतस्य तस्याविकलां फलर्धि-मपप्रथत् साधु ततस्तपतुः ॥५६॥
(व्या०) विभोरिति । यत्पल्सपैः यस्य चूतस्य पल्लवाः यत्पल्लवास्तैः विभो. श्रीपभस्वामिन विवाहकाले विवाहस्य कालस्तस्मिन् विवाहसमये तोरणमङ्गलानि तानि व्यतायन्त व्यस्तार्यन्त । ततः ततोऽनंतरं तपतु ग्रीष्मर्तुस्तस्य चूतस्य अविकला तां सपूर्णा फलधि फलानामृद्धितां फलसम्पदं साधु युक्तं अपप्रथत् (स्मृदृन्वरप्रथम्रदस्तृस्पशेर । ४-१-६५ । इ सू. प्रथधातोः पूर्वस्थ अकारस्य अकारः न इकार ।) विस्तारयामास ॥ ५६ ॥ दोषोन्नतिनस्य तमोमयीटा, दृष्टेति तामेष शनैः पिपेष । पुपोप चाहस्तदमुष्य पूजा-पर्यायदानादुदितद्युतीति ।। ५७ ॥
(व्या०) दापो इति । एष प्रोष्मर्तु अस्य भगवत तमोमयी (अस्मिन् । ७-३-२ । इ. सू. तमस् शब्दात् मयट् । अणनेयेकण्ननटिताम् । २४-२० । इ सू. स्त्रिया डो. प्रचुरं तमः अस्यमिति तमोमयी । ) अंधकारमयी पापमयी वा दोषोन्नतिर्दोषाणामुन्नतिः पक्षे दोषा रात्रि रात्रेसनतिर्वा दृष्टा सती न इष्टा सती न इष्टा न प्रिया इति कारणात् तां दोषोन्नतिं शनैर्मन्दं मन्दं पिपेष पिष्टवान् । च अहदिन इति कारणात् पुपुषे पुष्टवान् । इतीति किं तत् अहः अमुष्य भगवतः पूजापर्यायदानात् पूजाया पर्यायोऽवसरस्तस्य दानं तस्मात् पूजावसरदानतः उदितद्युति उदिता धुतिर्यस्य तत् । सप्रकाशं वर्तते ॥ ५७ ॥ उदग्रसौधाग्रनिलीनमल्ली-वल्लीसुमश्रेणिसुगन्धिशल्यः । श्रीखंडलेपावृतचन्द्रपाद-स्पर्शः कशा ग्रीष्मनिशाः स मेने ॥५८॥
(व्या०) उदय इति । स भगवान् ग्रीष्मनिशा श्रीष्मस्य निशा रात्रय ताः उष्णकालसत्का रात्रीः कृशा मेने । किलक्षणो भगवान् उदग्रसौधानिलीनभलीवलीसुमश्रेणिसुगन्धिशय्यः सौधस्य हर्म्यस्य अग्रं सौघानं उदग्रं च तत् सौधा च उच्चैस्तर सौधाग्रं तस्मिन् निलीना स्थापिता चसौ मल्लीवल्ली च विक