________________
२१६) श्रोजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् सर्गः ६॥
तयो रहपूर्विकया निदेशं, विधिसमानासु गताभिमानम् । स्यगं गतास्वप्यमराङ्गनासु, ययौ न जातु प्रशमं विवादः ॥ ४९ ।। __ (व्या०) तयोरिति । तयोः सुमंगलासुनन्दयो• निदेशमादेशमहपूर्विकया (अहं पूर्व इति यस्यां सा अहंपूर्विका मयूर०यसकादित्वात् निपातः ।) अहमहमिकया अमराङ्गनासु अमराणां देवानामङ्गना नार्यस्तासु गताभिमानं निरहंकार यथा भवति तया विधिसमानासु (मिमीमादामित्स्वरस्य । ४-१-२० । इ. सू विपूर्वक सन्नन्तधाधातो सनि परे इत् न च द्विः ।) विधातुमिच्छन्तीति विधित्सन्ते विघित्सन्ते इति विधिसमानास्तासु कर्तुमिच्छन्तीषु स्वगै गतासु अपि जातु कदाचिदपि विवाद: प्रशमं उपशान्ति न ययौ ॥ ४९ ॥ उपाचरद् द्वे अपि तुल्यबुद्धया, प्रभुः प्रमापास्ततमःसमूहः । उच्चावचा नखरुचिं तनोति, भास्वनिलीनालिषु पद्मिनीषु ॥ ५० ॥
(०या०) उपाचारदिति । प्रभुः श्रीऋषभस्वामी ते द्वे अपि कलत्रे तुल्य. बुद्धया तुल्याचासौ बुद्धिश्च तुल्यबुद्धिस्तथा सदृशभावेन उपाचरत् असेविष्ट । किलक्षणः प्रभुः प्रभापास्ततम समूहः प्रभया कात्या अपास्तो निराकृत: तमसां समूहो येन सः प्रभानिराकृताधिकारपटलः । भास्वान् सूर्यः निलीनालिषु निलीना अलयो भ्रमरा यासु ताः आलय. सख्या एवं विधासु पभिनीषु कमलिनीषु स्त्रीषु उच्चावचा (उदक्च उदच उच्चावचा मयूर०यंसकादित्वात् निपात । ) विषमां स्वरुचिं स्वस्य रुचिः कान्तिरभिलाषश्च तां आत्मीयप्रभा स्वाभिलाषं वा किं तनोति अपि तु नैव ॥ ५० ॥ ऋतूचितं पञ्चसु गोचरेषु, यदा यदाशंसि जिनेन वस्तु । तदिगिताकूतविदोपनिन्ये, तदैव दूरादपि वासवेन ॥ ५१ ॥
(०या०) ऋतु इति । जिनेन श्री५भेण पञ्चसु गोचरेषु ( गोचरसंचरवहज-म् । ५-३-१३१ । इ. सू. आधारे धान्तो निपातः गावः' इन्द्रियाणि चन्ति ५५ इति गोचरा ।) पञ्चसंख्याकेषु विषयेषु यदा यम्मिन्नवसरे यत् *चित तृनां उचितं योग्यं-पड्ने तुयोग्य वस्तु आशंसि (आपूर्वकस्धिातोः