________________
श्रीजैनकुमारसम्भवास्य महाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (२१५
श्रेणिभिः गुणानां श्रेणयस्ताभिः विनयविवेकविचारशीलप्रभृतिगुणसमूह: अद्वितोया मनोज्ञा ।। ४६ ॥ तयोः सपत्न्योरपि यत्प्रसन्न-हृदोर्मदोद्रेकविविक्तमत्योः । अभूद्भगिन्योरिव सौहृदं स, सुस्वामिलाभप्रभवः प्रभावः ॥ ४७ ॥
(व्या०) तयोरिति ॥ तयोः सुमंगलासुनन्दयो सपन्यो (समान पति र्ययोस्ते सपत्न्यो समानस्य धर्मादिषु । ३-२-१४९ । इ. सू. समानस्य स आदेश: सपन्यादौ । २-४-५० । इ. सू. स्त्रियां पतिशब्दात् डोः च अन्तस्य न् । ) रपि सत्यो भगिन्योरिव यत् सौदं प्रेम अभूत् । किंविशिष्टयोस्तयोः प्रसन्नदोः प्रसन्नं हृदयं ययोस्तयोः पुनः मदोद्रेकविविक्तमत्योः 'जातिलामकुलैश्वर्यबलपतप श्रुतै' एषोऽष्टप्रकारो मदः तस्य मदस्य उद्रेक आधिक्य तेन विविक्ता रहिता मतिर्ययोत्तयोः मनाधिक्यरहितबुद्धयो । सुस्वामिलाभप्रभवः शोभन: स्वामी सुस्वामी तस्य लाभ प्राप्तिः स प्रभवः कारणं यस्य सः भव्यभर्तृप्राप्तेरूत्पन्नः स प्रभावो ज्ञेयः ॥ ४७ ॥ आत्मोचितामालिमनासवत्यौ, त्रिलोकभर्तुर्हदयंगमे ते । सुरालयखामिनिबद्धरुच्या, शच्यापि सख्या समलजिषाताम् ॥४८॥
(410) आत्म इति । त्रिलोकमतुः त्रय अवयवा यस्या सः व्यवयवः स चासी लोकश्च त्रिलोकस्तस्य भर्ता स्वामी तस्य श्रीयुगादिनिनस्य हृदयंगमे (नानो गमः खड्डौ च विहायसस्तु विहः । ५-१-१३१ । इ. सू. हृदयपूर्वकगम् धातोः खप्रत्ययः । खित्यनव्ययाऽरुषोर्मोऽ-तो इस्वश्च । ३-२-१११ । इ. सू. मोऽन्तः ।) हृदयं गच्छतः इति हृदयंगमे ॥ ते कलने सुमंगलासुनन्दे રાજ્યાપિ ફ્રન્નાથાપિ સત્ય મનિષાતાં નિતે . વુિ માત્મવિતા आत्मन उचिता योग्या तामालिंसखीं अनाप्तवत्यौ अप्राप्त । किंलक्षणया शच्या सुरालयस्वामिनिबद्रीच्या सुराणामालयः स्थानं सुरालयो देवलोक सुराया मदिरायाः आलयः सुरालयो मदिरागृहं तस्य स्वामी मा इन्द्रस्तस्मिन् निबद्धारुचिरभिलाषो यया सा तया ॥ ४८ ॥