________________
२१४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६
समूहरा उल्लासयन्ती पक्षे सुमनसः पुष्पाणि तेषां समूहमुलासयन्ती । पुनः सदा सर्वदा आलिप्रियतां प्रियस्यभावः प्रियता आलीनां सखीनां प्रियता प्रियत्वं तां उपेता पक्षे अलयो भ्रमरास्तेषां प्रियतामुपेता प्राप्ता । पुन. सत्परपुष्टघोपा सत्सु साधुषु पर प्रकृष्टः पुष्टो घोषः प्रसिद्धिरूपो यस्या. सा पक्षे सन् विद्यमानः परपुष्टानां कोकिलानां घोष. शब्दो यस्यां सा ॥ ४४ ।। संयोज्य दोषोच्छयमल्पतायां, शुचिप्रभां प्रत्यहमेधयन्ती। तारं तपः श्रीरिव सातिपदवी, जाड्याधिकत्वं जगतो न सेहे ॥४५॥
(व्या०) संयोज्येति । सा सुमंगला तारमत्यर्थ तप:श्रीरिव ग्रीष्मलक्ष्मीरिव ज्येष्ठाषाढसकतुरिव जगतो विश्वस्य जाड्याधिक जडस्य भावो जाड्यं तस्याधिकत्वं तत् मूर्सचं जलाधिकत्वं वा न सेहे । किं कुर्वती दोषोच्छ्रयं दोषाणां दूषणानामुम्छयोविस्तारस्तं पक्षे दोषा रात्रिस्तस्या उच्छायो विस्तारतं अस्पतायां अल्पस्य भाव अल्पता तस्यां संयोज्य प्रत्यहं (योग्यतावीप्सार्थानतिवृत्तिसादृश्थे । ३-१-४० । इ. सू. वीप्सायाम०ययोभाव । अहः अह प्रति इति प्रत्यहम् ।) निरन्तरं शुचिप्रभां शुचिर्निमला प्रभा यस्याः सा तां पक्षे शुचे: मूर्यस्य प्रभा तामेवयन्ती वर्धयन्ती पुन• अतिपदवी ( स्वरादुतोगुणादखरो. । २-४३५ । इ. सू. स्त्रियां अतिपटुं शब्दात् विकल्पेन डी ) विदुषी पक्षे अतिशयेन पट्वी तीवा ॥ ४५ ॥ परांतरिक्षोदकनिष्कलंका, नाम्ना सुनन्दा नयनिष्कलङ्का । तस्मै गुणश्रेणिभिरद्वितीया, प्रमोदपूर व्यतरद् द्वितीया ॥४६॥
(व्या०) परा इति । तस्मै भगवते श्रीषभाय परा अन्या नाना सुनन्दा द्वितीया (द्वेस्तीयः । ७-१-१६५ । इ. मू. द्विशब्दात् संख्यापूरणेऽथै तीयप्रत्ययः | आत् इति सूत्रेण आपि कृते द्वितीया । ) कलत्रं प्रमोदपूरं प्रमोदस्य हर्षस्य पूररतं व्यतरत् ददौ । किंलक्षणा सुनन्दा अन्तरिक्षोदकनिष्कलका अन्तरिक्षस्य आकाशस्य उदकं जलं तद्वत निष्कलका निर्मला पुनः नयनिष्कलका नय एव निष्कं सुवर्ण तस्य लंका तस्यां हि लंकायां सुवर्ण प्रचुर पुन गुण