________________
श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग ६ (२१३
( व्या० ) सत्रमिति । सा सुमंगला शिशिरर्तुकीर्तिं शिशिर इतिऋतुस्तस्य कीर्तिस्तां माधफाल्गुनयो' कीर्ति विजिग्ये ( परार्वेर्जेः । ३-३-२ । इ. सू. विपूर्वक जिधातो आत्मनेपद विधीयते । परोक्षे । ५-२-१२ । इ. सू. विपूर्वकजिधातोः परोक्षाया. अत्मनेपदस्य प्रथमपुरुषैकवचने ए प्रत्यये विजि ए द्विर्धातुः परोक्षाडे प्राक् तु स्वरेश्वर विधे । ४-१ - १ | इ. सू द्वित्वेविजिजिए इति । जेर्गि: सन्परोक्षयो । ४ - १ - ३५ । इ. सू. परस्यजे. गि आदेशे विजिगि ए इति जाते | योऽनेकस्वरस्य । २-१-५६ । इ सू यकारे कृते विजिग्ये इति । ) जितवती किं कुर्वती सुमंगला हि शिशिरर्तुश्च सत्रं सत्रागारं विपत्त्रं विपदस्त्रायते इति विपत् तत् विपत्त्रायकं विपदो रक्षकं रचयतीति रचयन्ती कुर्वती पक्षे सत्रं वनं विगतानि पत्राणि यस्मात् तत् विपत्रं पत्ररहितं किंलक्षणं सत्रं वनं च अदभ्रागमं अदम्रो बहु' आगमो जनानामागमनं यस्मिन् तत् पक्षे आगमा वृक्षा बहुवृक्षमित्यर्थः । पुनः क्रमोपस्थितमारुतौघा क्रमयोश्चरणयोरुपस्थित मारुतानां देवानामोघः समूहो यस्या. सा पक्षे क्रमेण उपस्थित मारुतौघः पवनसमूहो यस्यां सा । पुनः किंकुर्वती इनं स्वामिनं गोष्ठयां श्रीदकाष्ठां श्रीदानां लक्ष्मीदाकानां काष्ठां कोटिं आनयन्तीं गोष्ठ्यां सखीमध्ये वार्तायां स्वामिनं लक्ष्मीदायकत्वेन श्लाधयन्तीति भाव' ॥ पक्षे इनं सूर्य श्रीदस्य घनदस्य काष्ठामुत्तरदिशमानयन्ती ॥ ४३ ॥
उल्लासयन्ती सुमनःसमूहं तेने सदालिप्रियतामुपेता । वसन्तलक्ष्मीरिव दक्षिणा हि-कान्ते रुचिं सत्परपुष्टघोषा ॥ ४४ ॥
( व्या० ) उल्लासयन्ती इति । दक्षिणा अनुकूला सुमंगला हि. निश्चितं कांते श्री ऋषभदेवे भर्तरि वसन्तलक्ष्मीरिव वसन्तस्य लक्ष्मी: चैत्र वैशाखसत्कऋतुरिरुचिमभिलापं तेने ( तन् ए इति दशायां अनादेशादे रे कञ्जनमध्येऽत' । ४-१-२४ । इ. सू. एकारे तेने. इति । ) विस्तारयामास । वसन्तलक्ष्मी दक्षिणस्यादिश. अहिकान्त पवतस्तस्मिन् रुचिं विस्तारयति । किं कुर्वती सुमंगला वसन्तलक्ष्मीश्च सुमन समूह शोभनं मनो येषां ने सुमनसः उत्तमास्तेसां