________________
२१२) श्रजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् सर्गः ६ ॥
क्षेत्रं शरीरं यस्याः सा । पक्षे स्फुटानि प्रकटानि वृत्तानि जातानि शालीनां क्षेत्राणि यस्यां सा । नदद्धंसकचारुचयां नदद्भयां शब्दायमानाभ्यां हंसकाभ्यां नूपुराभ्यां चारुर्मनोज्ञा चर्या ( समजनिपन्निपशीड्लुग् विदि चरिमनीणः । ५-३-९९ । इ. सू. स्त्रियां नाम्नि चरघातो. क्यप् । आत् इ. सू. आप् ।) I गमनं यस्याः सा पक्षे नदन्तीति नदन्तः शब्दं कुर्वाणा. ते च ते हंसकाश्च तेषा हंसकानां चारुः चर्या यस्यां सा । अपास्तपङ्का अपास्त पङ्क पापरूपकर्दमो यया सा पक्षे शोषितकमा । पुण्यप्रकाशकाशा पुण्यप्रकाशिका आशा यस्याः सा पक्षे पुण्याः पवित्राः प्रकाशाः प्रकटाः काशा यस्यां सा ॥ ४१ ॥ सत्पावकार्चिः प्रणिधानदत्ता-दरा कलाकेलिचले दधाना । श्रियं विशालक्षणदा हिमत्तः, शिश्राय सत्यागतशीतलास्या ||४२||
( व्या० ) सत्पावक इति । सा सुमंगला हिमर्तो. मार्गशीर्ष पौषसंबधिन श्रियं शोभां शिश्राय । किं लक्षणा सुमंगला हिमर्तुश्च अत्रापि अर्थवशाद्विभक्तिपरिणामः सत्पावकार्चिःप्रणिधानदत्तादरा सत् प्रधानं पावकं पावित्र्यकारकं अर्चिः तेजः परब्रह्मरूपं तस्मिन् प्रणिधानं ध्यानं येषां ते सत्पावकार्चि प्रणिधानास्तेभ्यो दत्त आदरोयया सा | पक्षे सत् प्रधानं पावकस्याग्नेः अर्चिस्तेज 'तस्य प्रणिधाने दत्तादरा । पुनः कला के लित्रलं दधाना | कलासु केलिचलं कोडाबलं तत् धत्ते इति दधाना | पक्ष कलाकेले : कंदर्पस्य बलं दधाना । कला कामं निका सेवते शीतकाले इति वचनात् । पुनः विशालक्षणदा विशालश्वासौ क्षणश्च विशलक्षण: विस्तीर्णक्षणस्तं ददातीति विशालक्षणदा पक्षे विशाला क्षणदा रात्रिर्यस्यां सा । पुनः सत्यागतशीतलास्या व्यजनं व्यागः सह त्यागेन वर्तते इति सत्यागः एवंविधस्तकारो यस्मिन् स सत्यागत एतावतातरहित शीतल शब्दः शील इति स्यात् तस्मिन् शीले आस्था निवेशो यस्याः सा सत्यागतशीतलास्या शीले निश्चला इत्यर्थः पक्षे सत्येन आगतस्य शीतस्य लास्यं यस्यां सा ॥ ४२ ॥ सत्रं विपत्रं रचयन्त्यदभ्रा-गमं क्रमोपस्थितमारुतौघा | सा श्रीदकाष्ठामिनमानयन्ती, गोष्ठयां विजिग्ये शिशिरर्तु कीर्तिम् ॥ ४३ ॥