________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (२११
उर्वौ मानस्य गर्वस्थ भित्तिः क्षयो यस्मात् तस्मिन् उरुमानभित्तौ । अत्र 'वान्यतः पुमांष्टादौ स्वरे' इति पुल्लिंगात् नागमाभाव सद्द्वारशोभाकरणोत्तरंगे सत् च तत् द्वारं च तत्य शोभाया. करण उत्तरंगो यस्मिन् तत् तस्मिन् । पक्षे सतां वारस्य समूहस्य सत् प्रशस्यहारस्य वा शोभाया करणे करणेन वा उतरङ्गे उत्कल्लोले || चनागमप्रीणितसत्कदम्बा, सारस्वतं सा रसमुद्भिरन्ती । रजोव्रजं मंजुलतोपनीत - छाया प्नती प्रावृषमन्त्रकार्षीत् ॥ ४० ॥
( ०या० ) घनागमेति । सा देवी सुमङ्गला प्रावृषं श्रावण भाद्रपदजातं वर्षाऋतुमन्वकार्षीत् अनुचकार । किंविशिष्टा सुमङ्गला च किंविशिष्टां प्रावृषं घनागमप्रीणितसत्कदम्बा घनाश्च ते आगमाश्च शास्त्राणि तै प्रीणिताः सतां कदम्बाः समूहा यया सा घनागमप्रीणितसत्कदम्बा । वर्षापक्षे अर्थवशाद्विभक्तिपरिणाम घनागमप्रीणितसत्कदम्यां घनानां मेघानां आगमेन प्रीणिता सन्तः प्रधानाः कदुम्बाः कदम्बवृक्ष यया सा ताम् । सारस्वतं ( तस्येदम् । ६ । ३ । १६० । इ. सू. इदमर्थे प्रागूजितादण् । ६-१-१३ । इ. सू. सरस्वतीशब्दादण् । ) सरस्वत्या अयं तं रसं सरस्वती सत्करसं सारं उदगिरन्ती प्रकटयन्ती । पक्षे सरस्वतीरसं सरस्वती नदी जलमुद्गिरन्तीं । रजोवजं रजसां व्रजस्तं पापव्रजं प्रती क्षयं नयन्ती पक्षे रजोनजं रेणुसमूहं क्षयं नयन्तीं पुनः मञ्जुलतोपनीतछाया मञ्जुलता मनोज्ञत्वं तथा उपनीता ढौकिता छाया कान्तिर्यस्याः सा पक्षे मंजको मनोज्ञाः ताश्चलताश्च ताभिरुपनीता छाया यस्याः तां मञ्जुलतोपनीतछायाम् ॥ रमेशस्यपद्मा स्फुटवृत्तशालि क्षेत्रा नदद्धंसकचारुचर्या । यापास्तपङ्का विललास पुण्य - प्रकाशकाशा शरदङ्गिनीव ॥ ४१ ॥
( व्या० ) स्मेरास्यपद्मा इति ॥ सा सुमङ्गला अङ्गिनी अंगमस्या अस्तीति अङ्गिनी मूर्तिमती शरदिव अश्वयुक् कार्तिकसत्कऋतुवत् विललास । किं लक्षणा सुमंगला शरद् वा स्मेरास्य पद्मा स्वेरं विकस्वरं आस्यमेव पद्मं मुखकमलं यस्याः सा पक्षे स्मेरं आस्यमिव पद्मं मुखवत्कमलं यस्याः सा स्मेरकमला स्फुटवृत्त - लिक्षेत्रा स्फुटं प्रकटं औदार्यधैर्यगांभीर्यमाधुर्यादिवृत्तेन चरित्रेण शालि शोभमानं