________________
२१०) श्री जैन कुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६
( व्या० ) यया इति । यया सुमंगलया श्रीखंड अन्तर्गतां निरर्थकतां अनायि । किंलक्ष्या सुमंगलया स्वशीलेन स्वस्यशीलं तेन ससौरभाङ्गचा सौरभेन सह वर्तते इति सौरभं (वृवर्णावादेः । ७ । १ । ६९ । इ. सू. सुरभिशदात् भावे अ ) अहं यस्या: सा तथा परिमलसहितशरीरया शीलपरिमलवासितदेहेन चन्दनमधरीकृतमित्यर्थः । पुनः देवार्चने देवानामर्चनं तस्मिन् स्वं विनियोज्य व्यापार्य जातपुण्यं जातं पुण्यं यस्य तत् सत् श्रीखंडं चन्दनं भोगिभि' सर्पे, भोगिभि' पुरुषैर्वा योग माप ॥ ३७ ॥ गरेण गौरीशगलो मृगेण, गौरद्युतिर्नोलिकयाम्बु गाङ्गम् |
1
मलेन वासः कलुषत्वमेति, शीलं तु तस्या न कथंचनापि ॥ ३८ ॥ ( व्या० ) गरेणेति | गौरीगंगल गौर्या, पार्वत्या ईशः स्वामी शिवः तस्य गल: कंठ ईश्वरकंठो गरेण विषेण कलुवत्वं एति प्राप्नाति | गौरद्युति गौरा शुभ्रा द्युतिः क्रान्तिर्यस्य स चन्द्रो मृगेण कलुषत्वमेति । गाङ्गं गङ्गाया इदं अम्बु पानीयं नीलिकया सेवालेन कलुषत्वमेति । वासो वस्त्र मलेन कलुत्वमेति तु पुनस्तस्याः सुमंगलायाः शीलं कथंचनापि कथमपि कलुषत्वं नैति । ईश्वरचन्द्रादिभ्योऽपि निर्मलं शोलमित्यर्थः ॥ ३८ ॥
I
उदारवेदिन्युरुमानभित्तौ, सद्वारशोभाकरणोत्तरंगे । उवास वासौकसि वर्ष्मणा या, गुणैस्तु तैस्तैर्हृदि विश्वभर्तुः ॥ ३९ ॥
( व्या० ) उदार इति । या सुमंगला वर्ष्मणा ( मनू । ९१.१ । इ. सू. सू. वृषू सेचने धातोः मन् प्रत्यय वर्षात मलानिति व 1) शरीरेण वासौकसि वासस्य ओक' तस्मिन् भवने उवास वसति स्म । तु पुनस्तैस्तैर्गुणैः सुरूपा सुभगा सुवेपा सुरतप्रवीणा सुनेत्रा सुखा श्रिया भोगिनी विचक्षणा प्रियभाषिणी प्रसन्नमुखी प्रभृतिगुणैर्विश्वभर्तु श्री ऋषभदेवस्य हृदि उवास । किंलक्षणे वासौकसि विश्वभर्तुर्हृदि वा उदारवेदिनि उदारा वेदा वा वरंडिका यस्मिन् तत् उदारवेदि तस्मिन् उदारखेदिनि पक्षे उत्कृष्टज्ञाने । पुनः उरुमानभित्तौ उरु मानं प्रमाणं यासां ता उरुमाना· गुरुप्रमाणा भित्तयो यस्मिन् तत् तस्मिन् उरुमानभित्तौ पक्षे