________________
श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (२०९
(क्तक्तवतू । ५। १ । १७४ । इ सू. विपूर्वक धाधातोः क्त प्रत्ययः धागः । ४ । ४ । १५ । इ सू. धाधातो क्तेपरे हिरादेश ।) कि लक्षणे हुताशे ज्वालानां माला' पक्तय ताभियुज्यते तस्मिन् ज्वालाश्रेणियुक्ते । तत् तस्मात्कारणात् तुष्टेन तेन हुताशेन मनाक स्तोकतरा अस्मै काञ्चनाय यदङ्गवर्णसवर्णता यस्याः सुमंगलाया. अगस्य वर्ण तेन सह सवर्णता साता अदाथि दत्ता ॥ पद्मं न चन्द्र प्रति सप्रसाद, तस्वोदितः सोऽपि ददाति सादम् । यस्था मुखं द्वावपि तावलुप्त, श्रीमान् परस्फातिसह व हन्त ॥३५॥
(व्या०) पद्ममिति । पञ कमलं चन्द्रं प्रति न सप्रसाद प्रसादेन सह वर्तते इति सप्रसादम् सुप्रसन्नं न उदितः उदयं प्राप्तः सोऽपि चन्द्रोऽपि तस्यपभस्य साद खेदं ददाति । यस्या सुमंगलाया मुख कर्तपदं तौ द्वापि पनचन्द्रौ अलुत लुपति स्म । हन्त इति वितर्के श्रीमान् श्रीलक्ष्मीरस्यास्तीति श्रीमान् लक्ष्मीवान् परस्फातिसहः परस्य स्फातिवृद्धिस्तां सहते इति परस्फातिसहः के पर्तते । श्रीलक्ष्मीः शोभा वा सुखे वसतीति श्रीमत्वम् ॥ ३५ ॥ पूर्व रसं नीरसतां च पश्चा-द्विवृण्वतो वृद्धिमतो जलौघैः । जगजने तृप्यति तद्गिरैव-स्थानेऽभवन्निष्फलजन्मतेक्षोः ॥ ३६॥
(व्या०) पूर्वमिति । इक्षो. निष्फलजन्मता निष्फलं च तत् जन्म च निष्फलजन्मनो भावः अभवत् स्थाने युक्तम् । किंकुर्वत इक्षो पूर्वप्रथमं रसं पश्चात् नीरसतां नीरसस्य भावस्ता विश्वत: विवृणोतीति विवृण्वन् तस्य प्रकटयत. । जलौघैः जलानां ओघा. समूहा जलौघास्तै. पानीयसमहर्डलयोरैक्यात् जडसमूहै र्वा वृद्धिमत वृद्धिस्यास्नीति वृद्धिमान् तस्य वृद्धियुक्तस्य । क सति तन्दिरा एव तस्याः सुमंगलाया गी तया तन्निरा एव जगजने जगतो. जन स्तस्मिन् लोके तृप्यति तृप्यतीति तृप्यन् तस्मिन् सति तृप्ति प्राप्नुवति सति इत्यर्थः ॥ ३६ ॥ यया स्वशीलेन ससौरभागचा, श्रीखंडमन्तगडुतामनायि । . . देवार्चने स्वं विनियोज्य जात-पुण्यं पुनर्भोगिभिराप योगम् ॥३७॥