________________
२०८) श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६
·
( व्या० ) अवारि । नारदो ( आतोडोऽह्वावाम । ५ । १ । ७६ । इ. सू नारकर्मपूर्वक दोघातो. ड | नारं नरसम्हं द्यति भिन्नत्ति इति नारद । ङस्युक्तं कृता । ३ । १ । ४९ । इ. सू समासः ) वैराग्निविवर्धनोऽपि वैरमेवाग्निस्तस्यविवर्धन (नन्द्यादिभ्योऽन । ५ । १ । ५२ । इ. सू. अन । विवर्धयति इति विवर्धन | ) वैररूपाग्निविवर्धनशीलोऽपि तं भगवन्तं अनन्यजौज अनन्यजस्य कामस्य ओजोबलं तत् ज्ञीवसुर्ज्ञापयितुमिच्छुः सन् इतिबुवया अवारि वारितवान् । इतीति किं असौ कंदर्प कामो जीवन् जीवतीति जीवन् सन् जीवगणान् जीवानां गणास्तान् जीवसमूहान् नियोध्य संग्रामे पातयित्वा मां भूरिशो बहुवारान् तोषयिता हर्ष प्रापयिष्यति । अत्र नारदवर्णनं कविधर्मत्वात् भाविनि भूतवदुपचार इति न्यायाद्वा ॥ ३२ ॥
•
आद्यापि या तस्य सुमंगलेति, हेतिः स्मरस्यास्खलिता रराज । रंभाप्यरं भारहिता यदग्रे, रूपं रतेरप्यरतिं तनोति ॥ ३३ ॥
( व्या० ) आद्या इति । तस्य भगवत आद्या ( दिगादिदेहांशाच । ६ । ३ । १२४ । इ. सू. आदिशब्दस्य दिगादिपाठात् भवेऽर्थे यप्रत्यय आदौ भवा आद्या ।) प्रथमा प्रिया सुमंगला इति रराज शोभिता । किंलक्षणा सुमंगला स्मरस्य कंदर्पस्य अस्खलिता न स्खलिता अस्खलिता हेतिः (सातिहेतियूतिजूतिज्ञप्तिकीर्ति. । ५ । ३ । ९४ । इ. सू. क्त्यन्तो निपात्यते हन्यते अनया इति हेति ।) प्रहरणम् । रंभापि अरं अत्यर्थं यदग्रे यस्था. सुमंगलाया अग्रे तस्मिन् भारहिता प्रभारहिता जाता । यद रतेरपि काममार्याया अपि रूपं अरति असमाधि तनोति करोति ॥ ३३ ॥ यज्ज्वालमालायुजि कांचनेना- हुतिः स्वतन्त्रा विहिता हुताशे । तत्तेन तुष्टेन यदङ्गवर्ण-सवर्णतादायि मनाकिमस्मै ॥ ३४ ॥
( व्या० ) यदिति । कांचनेन सुवर्णेन हुताशे ( कर्मणोऽणू । ५ । १ । ७२ । इ. सू. हुतपूर्वक अश्वातो: अण् प्रस्यय ।) हुतमश्नातीति हुताशस्तस्मिन्__ वैश्वानर यत् स्वतन्वा स्वस्य तनुः तया स्वतन्चा निजशरीरेण आहुतिर्विहिता