________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलं शतम् ॥ सर्ग. ६ (२०७
(व्या०) नासाविति ॥ असौ भगवान् नाट्यावसरागताभिः नाट्यस्य अवसर. समयस्तस्मिन् आगतास्ताभिः अप्सरोभिर्देवांगनाभिः पक्षे अपप्रधान सरोभिः । विलासोर्मिभिः विलासा एक अर्मयः तै विलासरूपैः ऊर्मिभिः कल्लोलै. न अक्षोभि न क्षोभित बिलासो नेत्रजो ज्ञेयः । यो भगवान् श्रोतः पतेः श्रोतसां इन्द्रियाणां पति श्रोत पति तस्य श्रोतःपते. मनसोऽपि समुद्रस्य वा शोषे प्रभूयते (क्यड् । ३ । ४ । २६ । इ. सू. प्रभुशचात् आचारेऽर्थे क्यड् । इडितः कर्तरि । ३ । ३ । २२ । इ. सू. क्यडोडिवादात्मनेपदम् । दीर्घशिव यङ् यक् क्येषु च । ४-३-१०८ । इ. सू. दीर्थ । प्रभुरिव आचरतीति प्रभूयते) समर्थो भवति । तस्य भगवतोऽत्र अप्सरोभिरक्षोभणे किं चित्रं किमाश्चर्यम् ॥
जगे न गेयेष्वपि नाकसद्भिः, सरस्य साराधिकता पुरोऽस । शातं सतां वर्धषितुं विरोध, लोला कथं सौमनसी विलोला ॥३१॥
(व्या०) जग इति । नाका: नाके स्वर्गे सोदन्ति गच्छन्ति इति नाकसदः (नकं अकं दुखं । नविधने अकं दुःख अस्मिन्निति नाकः रवर्ग । पखादयः । ३ । २ । १२८ । इ. सू. नाकशदस्य नखादित्वात् अन्स्परे । ३ । २ । १२९ । इ. सू. अनादेशसभावः । किप् । ५ । १ । १४८ । इ. सू. नाकपूर्वकसद्धातोः कि५ प्रत्ययः ।) तैः देवरस्य भगवतः पुरोऽग्रे गयेष्वपि (आसन्ध्यक्षरस्य । ४ । २ । १ । इ. सू. गैधातोराकार' । यएचातः । ५ । १ २८। इ. सू. यप्रत्ययः च आकारस्व एकारः । गातुं योग्यानि गेयानि ।) गीतेष्वपि स्मरस्य कंदर्पस्य साराधिकता सारस्य बलस्थ अधिकता साराधिकता बलाधिकत्वं न जगे न गीयते स्म । सौमनसी सुमनसा देवानां सतां वा इयं सौमनस्ली लोला जिह्वा सतां साधूनां शान्तमुपशान्तं विरोधं वर्धयितुं कथं विलोला चश्चला स्यात् अपि तु नैव स्यात् ॥ ३१ ॥ अवारि वैराग्निविवर्धनोऽपि, तं नारदो जीप्सुरनन्यजीजः । जीवनसौ जीवममानियोध्य, मां भूरिशस्तोषयितेतिबुद्धया ॥ ३२ ॥