________________
श्रीजैनकुमारसम्भवास्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (२१७
कर्मणि अद्यतनी ।) वाञ्छितं तदैव तस्मिन्नेवायसरे वासवेन इन्द्रेण तद्वस्तु दूगदपि उपनि-ये ढौकितम् । किं लक्षणेन वासवेन तदिगिताकूतविदा इंगितं च आकूतश्च अभिप्राय इङ्गिताकूनौ तस्य भगवतः इङ्गिताकूतौ तदिगिताकूतौ तौ वेत्तीति तेन तदिगिताकृतविदा ॥ ५१ ॥
कदापि नाथं विजिहीर्षमन्त-वणं विबुध्येव समं वधूभ्याम् । पत्रैश्च पुष्पैश्च तरून शेषा-विभूषयामास ऋतुर्वमन्तः ॥५२॥ ___ (व्या०) कदेति । ऋतुर्वसन्त पत्रैश्च पर्णैः पुन: पुष्पै कुसुमै अशेषान् न शेषा. अशेषास्तान सर्वान् तरून् वृक्षान् समस्तवृक्षान् विभूषयामास अलं. कृतवान् कि कृत्वा उत्प्रेक्षते-नाथं श्रीपभदेवं कदापि अन्तर्वणं (परिमध्येऽग्रेऽन्तः षष्ट्या वा । ३-१-३० । इ. सू. अव्ययीभावसमासः । निष्प्राग्रेऽन्तः खदिरकोश्यामशरेक्षुप्लक्षपीयूक्षाभ्योवनस्य । २-३-६६ । इ. सू. अन्त शब्दपूर्वकवनशब्दस्य नस्यणत्वम् । ) वनस्यान्तर्मध्ये वधूभ्यां सुमंगलासुनन्दाभ्यां समं विजिहीर्षु ( सन् भिक्षाशंसेरुः । ५-२-३३ । इ. सू सन्नन्तविजिहीर्षधातो. उ प्रत्यय ।) विहर्तुमिच्छतीति विजिहीर्षति विजिहीर्षतीति विजिहीर्षस्तं क्रीडाकर्तुमिछु विबुध्येव ज्ञात्वेष अन्तर्वणमित्यत्र निष्प्रातरिति सूत्रेण नस्य णत्वं ज्ञेयम् ॥ ५२ ॥ शैत्यं सरस्यां मृदुता लतायां, सोरभ्यमब्जे ललनैः प्रकाश्य । आनन्दयनिन्धदिगुद्भवोऽपि, देव समेतत्रिगुणः समीरः ॥ ५३ ।।
(व्या०) शैल्यमिति । निन्धदिगुद्भवोऽपि निन्धा चासौ दिक् च निन्द्यदिक् दक्षिणादिक तस्या उद्भवतीति निन्वदिगुद्भवः दक्षिण दिशाया उत्पन्न समीरो वायु देवं श्रीऋषभदेव आनन्दयत् -। किलक्षण समीरः सभेतत्रिगुण: समेता. मिलिता. त्रयो गुणा यस्य स हीनकुलोत्पन्नोऽपि गुणैर्मान्यः स्यात् वायो. त्रयो गुणा शीतो मन्दो सुरभिश्च । ललनै प्रकाश्य इति त्रिष्वपि स्थानेषु संत्रध्यते । किं कृत्वा सरस्यां सरोवरे ललनैः शैयं ( वर्णदादिभ्यष्टयण च वा । ७-१-५९ । इ. सू ढादित्वात् न वर्णत्वात् शीतशब्दात् वा व्यण । शीत