________________
२०४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकतम् ॥ सर्गः ६
४ । १ । ५९ । इ. सू. पूर्वन्य अकारस्य इकारे सिसत्यापयिष इति सन् भिक्षाशंसेरु । ५ । २ । ३३ । इ. सू. शोलाढिसदर्थे सिसत्यापयिप धातो. उप्रत्यये सिसत्यापयिषुरिति सिद्वम् । ) सत्यापयितुमिच्छुः । क सति लोके सितांशो. सिता अशवः किरणा यस्य स तस्य चन्द्रस्य मयूखैः किरणैः दुग्धाब्धिकेलीकुतुकानि दुग्धाना होगणामब्धि. समुद्रस्तस्य केल्य क्रीडा तासां कुतुकानितानि क्षीरसमुद्रस-कक्रीडाकौतुकानि प्रापिते सति यथा देवो नारायणः क्षोरसमुद्रे शेते ॥ २२ ॥ तदैव देवैः कृतमग्र्यवर्ण, समं वधूभ्यां मणिहय॑मीशः । ततो गुरुगन्धि विवेश शास्त्रं, मतिस्मृतिभ्यामिव तत्वकामः ॥२३॥
(व्या०) तदैवेति । ततस्ततोऽनन्तरमीशः श्री+पभो वधूभ्यां सुमंगलासुनन्दाभ्यां समं मणिहर्म्य मणीनां हर्य तत् मणिसत्कावासं विवेश प्रविष्टः ।। किंलक्षणं मणिहर्म्य तदैव देवैरमरै कृतम् । अग्र्यवर्ण अग्र्यः श्रेष्ठो वर्णो यस्य तत् प्रधानवर्ण । अगुरूदन्धि अगुरुणा नन्धि तत् परिमलबहुलं क इव तत्त्वकाम इव तत्वे कामो यस्य स यथा तत्वकामस्तत्त्वमिछुमतिस्मृतिभ्यां मतिश्च स्मृतिश्च ताभ्यां सह शास्त्रं प्रविशति । किलक्षणं शास्त्रं प्रधानवर्ण प्रशस्याक्षरं अध्याः श्रेष्ठा वर्णा अक्षराणि यस्मिन् तत् । गुरूद्गन्धि गुरुणा, उद्गन्धि उत्प्राबल्येन गन्धि गन्धेन परिमलेन युक्तं गुरुं विना शास्त्रस्य परिमलो न स्यात् ।। विवाहदीक्षाविधिविद्वधूभ्यां, कृत्वा सखीभ्यामिव नर्मकेलीः । निद्रां प्रियीकृत्य स तत्र तल्पे, शिश्य सुख शेष इवामुरारिः ॥२४॥
(व्या०) विवाह इति । स भगवान् तत्र तस्मिन् मणिहार्थे मणिमयावासे तल्पे पत्यके निद्रां प्रियीकृत्य निद्रामेव प्रियामभीष्टां कल वाकृत्वा न प्रिया अप्रिया अत्रियां प्रियां कृ.वा इति प्रियीकृत्य सुख शिरथे सुप्तः । क इव असुरारि रिच यथा असुराणां अरिः असुरारिनारायण शेथे सुख स्वपिति । किविशिष्टो मगवान् विवाहदीक्षाविधिवित् विवाहस्यदीक्षा विवाहसाकदीक्षा तस्या विधिः आचारस्तं वेत्ति इति । किं कृत्वा शिश्ये सखीभ्यामिव वधूभ्यां सुमंगलासुनन्दाभ्यां नर्भणः केलयस्ता क्रीडाकौतुकानि कृत्वा ॥ २४ ॥