________________
धीजैनकुमारसम्भवाल्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (२७५
. त्रिरात्रमेवं भगवानतीत्या-निरुद्धपित्रानुपरुद्धचित्तः । ततस्तृतीयेऽपिषुमर्थसारे, प्रावर्तनावक्रमतिः क्रमज्ञः ॥ २५ ॥
(व्या०) त्रिरात्रमिति । भगवान् एवं अमुना प्रकारेण त्रिरात्रं (संख्यासमाहारे च द्विगुचानाम्न्ययम् । ३ । १ । ९९। इ सू संख्यापूर्वकद्विगुः । सङ्ख्यातैकपुण्यवादोर्चाचरात्रेरत् । ७ । ३ । ११९ । इ सू रात्रिशब्दात् अत् प्रत्यय समासान्त I) रात्रित्रय तिसृणां रात्रीणां समाहारस्तत् अतीत्य अतिक्रम्य ततस्ततोऽनतरं तृतीयेऽपि पुमर्थसारे पुमर्येषु सारस्तस्मिन् पुरुषार्थरहस्ये कामाख्ये प्रावर्तत । किंलक्षणो भगवान् अनिरूपित्रा अनिरुद्रस्य पिता तेन कामेन न उपरुद्धं अनुपरुद्धं अनासक्तं चित्तं हृदयं यस्य स अनुपरुद्धचित्तः । अवक्रमतिः न चक्रा अवका सरला मतिबुद्धिर्यस्य सः अकुटिलबुद्वि. । क्रम जानातीति क्रमशः धर्मार्थकामादीनां कमज्ञ ॥ २५ ॥ भोगाईकर्म ध्रुववेद्यमन्य-जन्मार्जितं स्वं स विभुर्विबुध्य । मुक्त्येककामोऽप्युचितोपचारै-रभुङ्क्त ताभ्यां विषयानसक्तः ॥२६॥
(व्या०) भोगाई इति । स विभुः अन्यजन्मार्जितं अन्यत् च तत् जन्म च अन्यजन्म अन्यजन्मनि अर्जितं तत् प्राग्जन्मन्युपार्जितं स्वं आत्मीयं भोगाईकर्म भोगाई (अ)ऽच् । ५ । १ । ९१ । इ सू. भोगपूर्वक अर्हथातो अच् प्रत्ययः भोगमहतीति भोगाहम् ।) च तत् कर्म च तत् भोगफलं कर्म ध्रुववेद्य अवश्यभोक्तव्यं विबुध्य ज्ञात्वा मुक्त्येककामोऽपि मुक्तौ एव एक कामोऽभिलाषो यस्य स. सन् उचितोपचारै उचिताश्चते उपचाराश्च तै. शीतग्रीष्मवर्षर्तुयोग्योपहार असक्तोऽनासक्त सन् ताभ्यां सुमागलासुनन्दाभ्यां समं विषयानभुक्त ।। न तस्स दासीकृतवासवोऽपि, मनो मनोयोनिरियेष जेतुम् । विगृह्णने स्वस्य. परस्य मत्वा, ये स्थाम तानाश्रयते जयश्रीः ॥२७॥
(व्या०) न इति । मनोयोनिः मनोयोनिरुत्पत्तिस्थानं यस्य स. कंदर्प. दासीकृतवासवोऽपि न दासा अदासा अदासाः दासाः कृता इति दासीकृताः दासीकता. वासवा इन्द्रा येन सः दासीकृतवासवोऽपि सन् तस्य भगवतो मनो