________________
श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग.६ (२०३
यस्य स तं (भागिनि च प्रतिपर्यनुभिः । २।२ । ३७ । इ. स. प्रतियोगे क्षिपदमित्यत्र द्वितीया ।) प्रति पक्षे अक्षिणी लोचने पादौ च एषां समाहारस्तत् प्राण्यङ्गत्वात् समाहारद्वन्द्वः तत् प्रति वैरिणां । इन्दुश्चन्द्रो विन्दुर्विद्वानपि (विन्द्विच्छू । ५ । २ । ३४ । इ. सू. शीलादिसदर्थे विन्दर्निपात्यने ।) तां निशा दयितां पत्नी चकार । वा अथवा कलकिन. सारं कलत्रं क वर्तते ॥ २० ॥ विधोरुदीतस्य करेग्वापि, दिनायितं यत्प्रसृतैस्त्रियामा । युवाक्षिभृगस्तदरामि राम-तरङ्गिणीस्मेरमुखाम्बुजेषु ॥ २१ ॥
(व्या०) विधोरिति || त्रियामा त्रयो यामा यस्या सा त्रियामा रात्रिः उदितस्य विधोश्चन्द्रस्य करै किरणैः प्रसूतै सद्भि. यत् दिनायितं दिवसवदाचरितमवापि प्रापि । तत् युवाक्षिमङ्गः यूनां तरुणानां अक्षीणि नेत्राणि एवं मृङ्गाः तैः तरुणलोचनरूपमङ्ग । राभातरङ्गिणीस्मेरमुखाम्बुजेषु रामा. स्त्रियः एप तरङ्गिण्यो नद्यस्तासां स्मराणि (स्म्यजसहिंसदीपकम्पकमनमो र । ५-२-७९ । इ. सू. शीलादिसदर्थे स्मिड्धातो. र प्रत्यय । स्मयन्ते इति स्राणि ।) विकस्वराणि यानि मुखानि एव अभ्युजानि कमलानि तेषु स्त्रीरूपनदोसत्कविकस्वरमुखकमलेषु अरामि रभ्यते स्म ॥ २१ ॥ लोके सितांशोर्गमिते मयूख-दुग्धाब्धिकेलीकुतुकानि देवः । इयेष स स्वापसुखं सरोन-साम्यं सिसत्यापयिषुः किमक्ष्णोः ॥२२॥
(व्या०) लोके इति । स देवः श्रीयुगादीशः स्वापसुख स्वापस्य सुख तत् निद्रासुखं इयेष इच्छति स्म । किलक्षणो भगवान् अक्ष्णोर्लोचनयो. सरोजसाम्यं सरोजानां साम्यं तत् कमलसावं किमु सिसत्यापयिषुः (णिज्बहुलं नान्न. कृगादिषु । ३ । ४ । ४२ । इ. सू. सत्यशब्दात् करोत्यर्थे णिच् । सत्यार्थ वेदस्याः । ३ । ४ । ४४ । इ. सू. णिच् योगे सत्यशब्दस्य आकार अतिरीप्लीहोनायिक्ष्मायानापुः । ४ । ३ । २१ । इ. सू. णोपरे सत्याधातोः पुः । सत्यापि धातो. तुमहादिच्छायां सन्नतत्सनः । ३ । ४ । २१ । इ. सू. इच्छार्थे सन् सन्पडश्चं । ४ । १।३ । इ. सू. द्वित्वे स सत्यापिष इति । सन्यस्य ।