________________
२०२) श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् सर्गः ६॥
(व्या०) अलोपि इति । रात्रिः सह मलिपि सत् विद्यमानं ल। लाञ्छनमेव लिपियस्मिन् तत् सलमलिपि तत् इन्दुपत्रं इन्दुचन्द्र. स एव पत्रं तत् उच्चै उच्चत्तरं समुत्तम्भयति स्म । वादिनो हि उच्चैः पत्रावलम्ब उत्तम्भयन्ति । उक्तं च-त्य बाहू परिरारटोमि, यस्यास्ति शक्तिः स च वावदीतु । मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि ॥ १ ॥ इति पत्रावलम्बो पादिनां ज्ञेयः । उप्रेक्षते-इतीव इतीति किं मया आपतन्त्या आपततीति आपतन्ती तया आगच्छन्त्या सूरोऽपि सूर्यः सुभटो वा अलोपि लुप्त । अहं ग्रहाणां महोऽवप्रहभित् महस्तेजः तस्यापग्रहो विनस्त भिनद्मीति महोवनहभित् वर्ते । उत्तमपुरुषाणां उत्तमाश्चते पुरुषाश्च (सन्महत्परमोत्तमोत्कृष्टं पूजायाम् । ३ । १ । १०७ । इ. सू. कर्मधारयसमासः । ) तेषां तीर्थकचक्रवर्तिबलदेववासुदेवाधुत्तमपुरुषाणां जन्म भय्येव मयि सत्यामेव वर्तते । योगिमोगिषु योगिनश्च भोगिनश्च तेषु का अपरा अन्या मदिष्टाम सकाशात् इष्टा अभीष्टा । कोऽर्थः योगिनो हि रात्रावेव प्रायोध्यानस्तिमितलोचना योगनिद्रामापनाः स्युः । भोगिनोऽपि शब्दरूपरसगन्धस्पर्शएतत्पश्चप्रकारे विषयसुखमनुभवन्ति । त्राविति भावः ॥ १८ ॥ तत् तस्मात् कारणात् कापि स्त्री (स्त्री । ४५० । इ. उ सू. स्स्यायते त्रट डित् स्यायति गर्भोऽस्यामिति स्त्री ।) मया (तुल्यार्थेस्तृतीयापथ्यौ। २ । २ । ११६ । इ. सू. मया इत्यत्र सम्मानयोगे तृतीया ।) समाना तुल्या न वर्तते । या स्त्री मानास्पई मानस्य अहंकारस्य आस्पदं स्थानं अहंकारस्थानं अस्ति सा स्त्री बत इति वित पुरोऽस्तु अग्रे भवतु ॥ १९ ॥ युग्मम् ॥ अदान्मदान्ध्यं तमसामसाध्यं, क्षिपाक्षिपादं प्रति वैरिणां या । तां विन्दुरिन्दुर्दयितां चकार, सारं कलत्रं क्व कलङ्किनो वा ॥२०॥
(०या०) अदात् इति । या क्षिप रात्रिः तमसामन्धकाराणामसाध्यं न साध्यं असाध्यं तत् मदान्ध्यं मदेन आन्व्यं (पतिराजान्तगुणा राजादिभ्यः कर्मणि च । ७।१ । ६० । इ. सू. अन्धशब्दात् व्यण । अन्धस्य भाव आन्थ्यम् ।) मदाव्यं तत् अदात् ददौ । किविशिष्टानां तमसां क्षिपादं क्षिपा रात्रिः दं कलत्रं