________________
श्रीजैनकुमारसम्भवात्य महाकाव्यम् टीकासमलतम् ॥ सर्ग. ६ (२०१
तमस्सु राज्ञा स्वमयूखदंडै-विखंड्यमानेष्वदयं तमो यत् । तमेवं भेजे शरणं शरण्य, लक्ष्माभिधां किं तदलंभि लोकैः ।। १६॥
__ (व्या०) तमस्सु इति । राज्ञा चन्द्रेण नृपेग वा स्वमयूखदंडै स्वस्थ मयूखा, किरणा. ते एव दंडास्तैः आत्मीयकिरणरूपदडै तमस्सु अंधकारेषु अदयं निर्दयं यथा भवति तथा विखंड्यमानेषु सत्सु यत् तमस्तमेव चन्द्रं शरणं भेजे । किलक्षणं शरणं शरण्यं (तत्र साधौ । ७ । १ । १५ । इ सू. शरणशब्दात् साध्वथै यः ।) शरणे साधु तत् । लोकैरतत् तमोऽधकार लक्ष्माभिधां लक्ष्मणच्चिह्रस्य (लक्ष्यते अनेनेति लक्ष्म । मन् । ९११ । इ. उ. सू लक्षधातोर्मन् प्रत्ययः ।) अभिधा तां लांछनाभिधानं किं न अलम्भि न प्राप्रितं अपितु प्रापितमेव ॥१६॥ अत्रेर्द्विजादुद्भवति स न श्री-तातात्पयोधेर्विधरित्यवैमि । यजातमात्रः प्रतिधिष्ण्यमेषोऽक्षिपत्करं श्रीलवलाभलोभात् ॥१७॥
(या०) अत्रेरिति । एके चन्द्रं अत्रिनेत्रज वदन्ति केचिचतुर्दशरत्नमध्ये समुद्राजातं वदन्ति । परमहं इति अवैमिजानामि इतीति किं विधुः अत्रेर्द्विजात् अत्रिनाम्नो ब्राह्मणात् उद्भवति स्म उत्पन्न । श्रीतातात् श्रियाः तातस्तस्मात् लक्ष्मीपितुः समुद्रात् नोत्पन्न । अत्र हेतुमाह-यत् यस्मात् कारणात् एषविधुश्चंद्रो जातमात्र: सन् श्रीलबलामलोभात् श्रिया लबो लेशस्तस्य लाभः प्राप्ति तस्य लोभ
स्मात् प्रतिधिष्ण्यं (योग्यतावीप्सार्थानतिवृत्तिसादृश्य। ३।१ । ४० । इ. सू. वीप्सा) प्रतिनक्षत्रं प्रतिगृहं वा कर हस्तं अक्षिपत् । चन्द्रोढये नक्षत्राणि निस्तेजांसि जातानीति भावः । ब्राह्मणा हि प्रतिहं या कुर्वन्ति तेन कारणेन भिक्षाचरकुलोत्पन्नश्चन्द्र इति ज्ञायते ॥ १७ ॥ अलोपि स्रोऽपि भया पतन्या-प्यहं महोऽवग्रहभिद्रहाणाम् । मथ्येव जन्मोत्तमपूरुषाणां, का योगिभोगिपरा मदिष्टा ॥ १८ ॥ न स्त्री ततः कापि मया समाना, मानास्पदं या बत सा पुरोस्तु । इतीच सल्लक्ष्मलिपीन्दुपत्र-मुच्चैः समुत्तम्भयति स रात्रिः॥ १९ ॥