________________
२००) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् सर्गः ६ ॥
___ (व्या०) धामेति । पूर्वायुधे पूर्वश्वासौ अंबुधिश्च तस्मात् पूर्वसमुद्रात् उदीतमेव उदयं प्राप्तं चन्दविग्वं चन्द्रस्य बिग्वं चन्द्रमंडलं तत् लोकः ऐक्षत आलुलोके । किविशिष्टं चन्द्रबिम्बं कोकनद श्रि कोकनदं रक्तोत्पलं तहत् श्री. शोभा यस्य तत् । क सति असतीसमूहे असतीनां समूहस्तस्मिन् इति अहं विचारं वितन्वति वितनोतीति वितन्वन् तस्मिन् कुर्वति सति । इतीति किं इदं औत्पातिकं उत्पात-- कारि वा अथवा आनलं अनलोऽग्निस्त संबंधि धाम तेजो वर्तते ॥ १३ ॥ सुधानिधानं मृगपत्रलेख, शुभ्रांशुकुंभं शिरसा दधाना । कौसुंभवस्त्रायितचान्द्ररागा, प्राची जगन्मंगलदा तदाभूत् ॥ १४ ॥
(व्या०) सुधानिधानमिति । प्राची (अञ्च । २ । ४ । ३ । इ. सू. प्रान् शब्दात् स्त्रियां डीः ।) पूर्वदिक् तदा तस्मिन्नवसरे जगन्मङ्गलंदा मङ्गलं ददातीति मालदा जगतोमङ्गलटा जगन्मङ्गलदा जगतोमङ्गलदायिनी अभूत् । किंकुर्वाणा शुभ्रांशुकुंभ शुभ्रा अंशव किरणा यस्य सः शुभ्रांशुः चन्द्र स एव कुंभ: कलश चन्द्रकलशं शिरसा मस्तकेन दधाना धत्ते इति दधाना शुभ्रांशुशब्देन रौप्यं तस्य कलशं दधाना । कौसुंभवस्त्रायितचा-दरागा कौसुभं (कुसुम्भेन रक्तं कौसुगं रागाह) रक्ते । ६ । २ । १ । इ सू. कुसुम्भशब्दात् रागेऽर्थे अण् । ) च तत् वस्त्रं च कौसुंभवस्त्रं तद्दाचरित: चन्द्रसंबंधिरागो यस्या सा। किलक्षणं शुभ्रांशुकुंभं सुधानिधानं सुधाया. अमृतस्य निधानं अमृतपूर्ण भृगपत्रलेख मृगः पत्रलेखा यस्मिन् स तम् ॥ १४ ॥ सांराविणं राजकरोपनीत-पीयुषपानैर्विहितं चकौरैः।। भास्वद्विरोकापगमाप्तशोकाः, कोकाः क्षतक्षारमिवान्वभूवन् ॥ १५॥
(व्या०) साराविणमिति । चको रैर्विहितं सांराविणं कोलाहलं कोकाश्चनाबाकाः मतक्षारं क्षतेभारस्तं क्षते प्रणे क्षारक्षेपमिव अन्वभूवन् अनुभवन्ति स्म । किंविशिष्टैश्चको रैः राजकरोपनीतपीयूपपानै राजा चन्द्रो नृपो वा तस्य करण हस्तेन किरणों उपनीतं पीयूषस्य पान अमृतपान येषां ते.तैः । किलक्षणा कोका भास्वद्विरोकापगमाप्तगोका भास्वत सूर्यस्य विरोका किरणाः तेषां अपगमे विनाशे आप्त प्राप्त शोकोयैस्ते ॥ १५ ॥