________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (१९९
दत् ।) तमो निरोधुं अन्धकार स्फेटयितुं यान् दीपभृत्यान् भुवि पृथिव्यां न्ययुक्त व्यापारितवान् । तैदीपभृत्यैः दीपा एव भृत्या किंकरारतैः हन्त इति वितर्के निजनाथनामविडंबिनः निजस्यात्मनो नाथ स्वामी सूर्य सूर्यस्य नाम पतङ्गोऽत्ति शलभस्यापि नाम पतङ्गोऽस्ति पतङ्गः पक्षिसूर्ययोरितिवचनात् अत्र पतङ्गादेन छलनास्ति निजनाथनाम पिडंबयन्ति अनुकुर्वन्ति इति । एवंविधा ये पतङ्गा. शलभा हताः ॥ १० ॥ यत्कोकयुग्मस वियोगवहि-जज्वाल मित्रेऽस्तमिते निशादौ । सोद्योतखद्योतकुलस्फुलिङ्गं, तद्भुमराजिः किमिदं तमिस्रम् ॥ ११ ॥
(व्या०) यत्कोकयुग्मस्य इति ॥ यत् कोकयुग्मस्य कोकयोः चक्रवाकयोः युग्मं मिथुनं तस्य चक्रवाकन्दस्य निशादौ निशाया आदिस्तस्मिन् रजन्यादौ मित्रे सूर्य सुहृदि वा अस्तमिते सति वियोगवह्निः वियोगस्य वह्निः जज्वाल । इदं तमिस्त्रमन्धकार किं धूमराजि. धूमानां राजि न वर्तते । किंलक्षणं तमिल सोद्योतखद्योतकुलस्फुलिंगं खद्योतानां कुलं सोद्योतं च तत् खद्योतकुल च तदेव स्फुलिंगा यस्मिन् तत् ॥ ११ ॥ अवेत्य पाटचरपांमुलानां, तमोबलादुर्ललितानि तानि । प्रभां दिशीन्द्रख तमोऽपनोदा-मदीदृशत् स्वोदय-चिह्न मिन्दुः॥१२॥
(व्या०) अवेत्य इति । इन्दुश्चन्द्रः इन्द्रस्य दिशि पूर्वस्यां दिशि प्रभा कान्ति अदीशत् दार्शतवान् । किविशिष्टां प्रभां तमोपनोदां तमः अन्धकार अपनोदयति स्फोटयति इति तमोऽपनोदा ताम् । स्वोदयचिह्न स्वस्य उदयस्तस्य चिहं आविष्टलिङ्गमेतत् । किंकृत्वा पाटचरपांसुलानां पाटचराश्च (पाटयन्तः चरन्तीति पाटचराः पृषोदरादित्वात् साधु) पांसुलाश्च (पासव' आसां सन्तीति पांसुला.) तासां तस्कराणां असतीनां च तमोबलात् तमसो बलं तस्मात् तानि दुर्ललितानि दुश्चेष्टितानि अवेत्य ज्ञात्वा ॥ १२ ॥ धाभेदमौत्पातिकमानलं वेत्यूह वितन्वत्यसतीसमूहे । उदीतमेवैक्षत चन्द्रबिम्ब, पूर्वायुधेः कोकनदश्रि लोकः ॥ १३ ॥