________________
१९८) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६
( व्या० ) किमिति । इयं तमस्विनी (अस्तपोमायामेधास्रजो विन् । ७ । २ । ४७ । इ. सू. तमस् शब्दात् मत्वर्थे विन् । स्त्रियां नृतोऽस्वस्रादेडी । २ । ४ । १ । इ. सू डी: ) रजनिः किं योगिनी वर्तते किंलक्षणा तमस्विनी धृतनीलकंथा धृता नीला कंथा यया सा पुनः किंवि० तारकशंखभूपा तारका (तारकावर्णकाऽष्टक।ज्योतिस्तान्तवपितृदैवत्ये । २-४ -११३ । इ. सू. ज्योतिषि तारकाशब्दे इकाराभावो निपात्यते । ) एव शंखसत्काभरणानि यस्याः सा या जगतो विश्वस्य सर्वं निखिलां वर्णव्यवस्थां वर्णानां ब्राह्मणादीनां श्वेतकृष्णादीनां चा व्यवस्थां मर्यादामवधूय अभेदश्वासौ वादृथ तं एकाकारत्वं विस्तारयामास | तितांसति श्वैत्यमिहेन्दुरस्य, जाया निशा दित्सति कालिमानम् । अहो कलत्रं हृदयानुयायि, कलानिधीनामपि भाग्यलभ्यम् ॥ ९ ॥ ( व्या० ) तितांसति इति ॥ इन्दुन्द्र इह जगति वैत्यं श्वेतस्य भावः तत् 'धवलतां तितांसति (तुमर्हादिच्छायां सन्नतत्सनः । ३ । ४ । २१ । इ. सू. तनू धातोरिच्छार्थे सन् । सन्यङश्च । ४ । १ । ३ । इ. सू. द्वित्वे ततन् सति । सन्यस्य । ४ । १ । ५९ । इ. सू. पूर्वस्थात इकारे तितन् सति । तनो वा । ४ । १ । १०५ । इ. सू. विकल्पेन दीर्घे तितांसति इति । ) तनितुमिच्छति विस्तारयितुमिच्छति । अस्य इन्दोर्जाया निशा कालिमानं कृष्णत्वं दित्सति (दा सति इत्यत्र मिमीमादामित्स्वरस्य । ४ - १ - २० । इ. सू. सादौशनि दाधातोः स्वरस्य इत् न च द्विर्भावः । दित्सति । ) दातुमिव्सति । अहो इति आश्चर्ये अनुयातीति अनुयायि हृदयस्व अनुयायि हृदयानुयायि मनोऽनुकूलं कलत्रं भार्या कलानिधीनामपि कलानां निघयस्तेषां कलावतामपि भाग्यलभ्यं लब्धुं योग्यं भाग्येन लभ्यं स्यात् । यतः 'चन्द्रस्य कलावतोऽपि नि|| प्रियास्ति ॥९॥ दत्त्वा पतङ्गः प्रवसन् वसु स्वं, तमो निरोध्धुं भुवि यान्न्ययुंक्त | तैर्दीपभृत्यैर्निजनाथ नाम विडंविनो-हन्त हताः पतङ्गाः ॥ १० ॥
श्वैत्यं
( व्या० ) दवा । पतङ्गः सूर्यः प्रवसतीति प्रवसन् प्रवासं गच्छन् सन् स्वं वसु द्रव्यं तेजो वा दवा ( दत् । ४ । ४ । १० । इ. सू. कथापरे दाघातोः