________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग. ६ (१९७
(व्या०) काली इति । इयं काली कृष्णा निशा रात्रि अह्नि दिवसे भास्वतः सूर्याद् भयं भी तस्तेन गिरे. पर्वतस्य गुहासु कंदरासु आलोय निलीय तदस्ते तस्य भानोरस्तः तस्मिन् सति भूखेला भुवि वसुधायां बद्र। कृता खेला क्रीडा यया सा सती अखिलवस्तु सकलपदार्थ कालोचकार न कालमकालं अकालं कालं चकार इति कालोचकार । कालेन समयेन विना क शक्तिरस्ति कापि नास्तीत्यर्थ ॥ कुमुद्वतीं चाकृत रोहिणीं च, प्रिये निशां वीक्ष्य शितिं सितांशुः । श्रियं च तेजश्व तयोर्ददाना, साधत्त साधु क्षणदेति नाम ॥ ६ ॥
(व्या०) कुमुतामिति । सितांशुः सिताः श्वेताः अंशवः किरणा यस्य स चन्द्रः शितिं कृष्णां निशां रजनीं वीक्ष्य दृष्ट्वा कुमुद्वती (तदस्याऽस्यस्मिन्निति मतुः । ७ । २ । १ । इ. सू. कुमुदशदात् मतुः । मावर्णान्तोपान्ता पञ्चमवर्गान् मतोमोवः । २ । १ । ९४ । इ. सू. मतोर्मस्य वः । अधातूददितः । २। ४ । २ । इ. सू. उदितत्वात् डीः ।) कुमुदिनी रोहिणी च द्वे प्रिये अकृत कृतवान् । सा निशा तयोः कुमुदतीरोहिण्यो श्रियं शोभां च अन्यत् तेजो ददाना सती क्षणदा क्षणं उत्सवं ददातीति क्षणदा पक्षे रात्रिरिति नाम साधु युक्तमत्त धरति स्म ॥ ६ ॥ हरिद्रयेयं यदभिन्न नामा, बभूव गौर्येव निशा ततः प्राक् । सन्तापयन्ती तु सतीरनाथा-स्तच्छापदग्धाजनि कालकाया ॥ ७॥
(व्या०) हरिद्रयेति । यत् यस्मात् कारणात् इयं निशा रात्रि हरिद्रया सह अभिन्न नाम यस्याः सा अभिननामा सदृशनामा वर्तते । यतो नाममालायां हरिद्रा कांचनी पीता निशाल्या वरवर्णिनी इत्यादि । तत् तस्मात् कारणात् प्राक् पूर्व गौर्यैव गौरवर्णा बभूव इति ज्ञायते । तु पुनः अनाथा न विद्यते नाथो यासा ताः सती: संतापयतीति संतापयन्ती सती तासां शापेन दग्धा तच्छापदग्धा कालकाया कृष्णदेहा अजानि जाता ॥ ७ ॥ कि योगिनीयं धृतनीलकंथा, तमस्विनी तारकशंखभूषा । वर्णव्यवस्थामवधूय सर्वा-मभेदवादं जगतस्ततान ।। ८ ।।