________________
१९६) श्रीजनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् सर्गः ६ ॥
भूतलक्षणे तृतीया पुन: किंवि० स्फुटाः प्रकटाः तारकाणां ओधा समूहा यस्यां सा प्रकटतारासमूहा । किंविशिष्टायास्तनोः विभिन्न कालच्छविदन्तिदैत्यचर्मावृतेः विशेषेण भिन्ना कालच्छविः कृष्णकान्तिर्यस्य स एतादृशो यो दन्तिदैत्यो गजासुरत्तस्य चम्म कृत्ति तदेव आवृति. आवरणं यस्था सा तस्याः । भूरिनरास्थिभाज (भजो विण । ५ । १ । १४६ । इ. सू. भजधातोविण् ।) नराणामस्थीनि नगस्थीनि भरीणि च तानि नरास्थीनि च तानि भजतीति तस्या कोऽर्थ रात्रः अन्धकारमेव दैत्यसककृष्णचर्मावृतिः । तारासमूहा मनुष्यास्थीनि । अत: कारणात् ईश्वरतनोरूपमानं रात्रेरितिभावः ॥ ३ ॥ न्यास्थन्निशा तस्कर पुंश्चलीनां, नेत्रेषु लोकाक्षिमहांसि हत्वा । सूरे गते दुःसहमंडलाये, तमस्विनां हि फलिता कदाशा ॥४॥
(व्या०) न्यास्थत् इति ॥ निशारात्रिः लोकाभिमहांसि लोकानां अक्षीणि लोचनानि तेषां महांसि तेजांसि हत्वा तस्कराश्च (किंयत्तबहोरः । ५-१-१०१ इ. सू. तद्शदपूर्वक कृधातोर । वर्चस्कादिवरकरादयः । ३ । २ । ४८ । इ.. सू. चौर्येऽर्थे तत् शब्दस्य तकारस्य सकारे तस्कर: तस्करोतीति तस्कर.) पुंश्चल्यश्च तासां चौरस्वैरिणीनां नेत्रेषु न्यास्थत् (शास्त्य सूवक्तिख्यातेरड् । ३ । ४ ६० । इ. सू. अवतन्यांकर्तरि असूधातोः अड्प्रत्यय । श्वयत्यसूवचपतः श्वास्थवोचपप्तम् । ४ । ३ । १०३ । इ. सू. अद्यतन्यां कर्तरि अडि परे असूधातोः अस्थादेशः।) अस्यति स्म । कसति दु सहमंडलाये दु खेन सह्यते इति दुःसहं मंडलस्य अग्रं मंडलानं खड्गो वा यस्य स तस्मिन् सूरे सूर्य सुभटे च गते सति तमस्विनां (अस्तपोमाया धास्रजो विन् । ७ । २ । ४७ । इ. सू. तमस् शब्दात मत्वर्थे विन्प्रत्यय ।) अन्धकार चारिणां पापिनां हि इति खेदे कदाशा (कोः कत्तत्पुरुपे । ३ । २ । १३० । इ. सू. को कदादेश ।) कुत्सिता आशा कदा२।। फलिता ॥ ४ ॥ कालीयमालीय गिरेगुंहासु, भास्वद्भयेनाहि निशा तदस्ते । भूबद्धखेलाखिलवस्तु काली-चकार कालेन विना क शक्तिः ॥५॥