________________
अथ षष्टः सर्गः प्रारभ्यते।
--
-
अथाश्रयं स्वं सपरिच्छदेषु, सर्वेषु यातेषु नरामरेषु । नाथं नवोढं रजनिर्विविक्त इवेक्षितुं राजवधूरुपागात् ॥ १ ॥
(व्या०) अथेति ॥ अथानन्तरं रजनिः राजवधू राज्ञ चन्द्रस्य पक्ष राज्ञो नृपस्य वधू राजवधू नवोढं नवपरिणीतं नाथं विविक्ते एकान्ते ईक्षितुमिव उपागात् (इगिकोई । ४ । ४ । २३ । इ. सू. अद्यतन्यां इण् धातोर्गा । पिबति दाभूस्थ सिचो लप् परस्मै न चेट । ४ । ३ । ६६ । इ. सू. सिचो लुप् इण्यातो कर्तरि अद्यतनी 1) समेता । केपु सत्सु सपरिच्छदेषु परिच्छदेन सह वर्तन्ते इति सपरिच्छदास्तेषु सपरिवारेषु सर्वेषु नराश्च अमगश्च नरामरास्तषु मनुष्यदेवेषु स्वमाश्रयं आत्मीयं गृहं यातेपु गतेपु सम्मु ॥ १ ॥ निशा निशाभंगविशेषकान्ति-कान्तायुतस्यास्य वपुर्विलोक्य । स्थाने तमाश्यामिकया निरुद्धं, दधौ मुखं लब्धनवोदयापि ॥२॥
(व्या०) निशा इति । निशा रात्रि लब्ध नवोदयापि नवश्चासौ उदयश्च नवोदयः लब्धो नवोदयो यया सा सती कान्ताभ्यां युत तस्य कलत्रयुतस्य अस्य भगवतो वपुः शरीरं विलोक्य दृष्ट्वा तमसः श्यामिका तया तम. श्यामिकया अंधकारकालिन्ना निरुद्धं व्याप्तं मुख दधौ बभार । किंविशिष्टं वपुः निशाभंगविशेषकान्ति निशा हरिद्रा तस्या भंगः छेद तहत् विशेषा कान्तिर्यस्य तत् । पक्षे निशाया रात्रे. भंगे सति विशेषकान्ति । अत्र शब्दलं ज्ञेयम् ॥ २ ॥ अभुक्त भृतेशतनोविभूति, भौती तमोभिः स्फुटतारकौघा । विभिन्नकालच्छविदन्तिदैत्य-चर्मावृतेर्भूरिनरास्थिभाजः ॥ ३ ॥
(व्या०) अभुक्त इति । भौती रात्रिः भूतेशतनोः भूतानां ईश स्वामी शिवरतस्य तनुः शरीरं तस्याः ईश्वरस्य.मूर्तेर्विभृति अभुक्त सेवते स्म । किं विशष्टा रात्रिः तमोभिरंधकारैरुपलक्षिता हेतुककरणेत्थंभूतलक्षणे' इति सूत्रेण इत्थं