________________
श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५ (१९१
शीलमाभरणं नास्ति । तदा महिला (कल्यनिमहि - लः । ४८१ । इ. उ. सू. महधातो: इल. । आत् इ. सू. आप् मह्यते पूज्यते इति महिला 1) स्त्री मृदुपलै - मृत् च मृत्तिका उपलाश्च पाषाणास्तैः काञ्चनरत्नै कांचनं च रत्नानि च ते वीवधं (भावाकर्त्रेः । ५ । ३ । १८ । इ. सू. विपूर्वकवध्घातो. भावेधञ् । न जन वधः । ४ । ३ । ५४ । इ. सू. वधूधातोर्वृद्र्यभावः । घञ्युपसर्गय चहुलम् | ३ । २ । ८६ । इ. सू. उपसर्गस्य दीर्घ । विवध्यते इति । वीवधः 1) भारं किं कथं वहति ॥ ७८ ॥ मजितोऽपि घनकज्जलपङ्के, शुभ्र एव परिशीलितशीलः । स्वर्धुनीसलिलधौतशरीरोऽप्युच्यते शुचिरुचिर्न कुशीलः ॥ ७९ ॥
|
( व्या० ) मज्जित इति । परिशीलितं पालितं शीलं येन सः परिशोलित - शील: पालितशीलः पुमान् घनकज्जलपङ्के धनं च तत् कज्जलं च तदेव पस्तस्मिन् निचितकज्जलकद्दमे मज्जितोऽपि ब्रुडितोऽपि शुभ्र एव उज्ज्वल एव । कुशीलः कुत्सितं निन्दितं शोलं यस्य स पुमान् स्वर्धुनीसलिलधौतशरीर स्वर्धुनी (धुनातिततरून् इति धुनी । धूशाशीको हस्वश्च । ६७८ । इ उ सू. धूधातोः नि धातोश्च ह्रस्वः ततो ऽयां धुनी । ) गङ्गा तस्याः सलिलं जलं तेन धौतं क्षालित शरीरंयेन स गंगाजलक्षालितदेहोऽपि शुचिः पवित्रा रुचिः कान्ति यस्य स शुचिरुचिर्नोच्यते ॥ ७९ ॥ कष्टकर्म नहि निष्फलमेत- चेतनावदुदितं न वचो यत् । शीलशैलशिखरादवपातः, पातकापयशसोर्वनितानाम् ॥ ८० ॥
( व्या० ) कष्टकर्म इति । कष्टं च तत् कर्म च कष्टकर्म कृतं सत् निष्फ लं निर्गतं फलं यस्य तत् नहि स्यात् । एतत् वच' चेतनावदुदितं चेतना बुद्धिरस्यास्तीति चेतनावान् चेतनावता सचेतनेन उदितं कथितं न नास्ति । यत् यस्मात् कारणात् वनितानां खोगां शीलशैलशिखरादवपात' शीलमेव शैल पर्वतरतस्य शिखरं तस्मात् अवपातः पतनं पातका पयशसो स स्यात् कोऽर्थ - ये केचन भृगुपासादि कष्टकर्म कृत्वा भवान्तरे राज्यादिसुखं वाञ्छन्ति एतत् मिथ्या