________________
ओजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग. ५ (१८९
भुवोऽपि अम्बूनि धीयन्ते अस्मिन्निति अम्बुधि समुद्र तस्मात् भवन्तीति समुद्रजाता अपि वीचय कल्लोला विशीर्णा भग्ना ॥ ७२ ॥ चापलेऽपि कूल मूर्ध्नि पताका, तिष्ठतीतिहृदि मास निघत्तम् । आप सापि वसतिं जनवाह्यां, दंडसंघटनया दृढबद्धा || ७३ ॥
1
( व्या० ) चापल इति । हे कुलीन युवा हृदि हृदये इति मास्म निघत्तं चित्त इति न चिन्तनीयम् । इतीति कि पताका चापलेऽपि चपल्लवेऽपि सति कुलं गृहं गोत्रं वा तस्य मूर्ध्नि मस्तके तिष्टति । सापि पताकापि दंडसंघटनया दंडस्य संघटना तया दृढवद्वासती जनेभ्यो वह्यां तां वसतिं ( वसन्ति अस्या - मिति वसति । खल्यमिरमि वहिवस्यर्तेरति । ६५३ | इ सू वस्घातो अतिप्रत्यय - 1 ) वासं प्राप ॥ ७३ ॥
अस्ति संवननमात्मवशं चे- दौचितीपरिचिता पतिभक्तिः । मूलमंत्रमणिभिर्मृगनेत्रा - स्तद् भ्रमन्ति किमु विभ्रममाजः ॥ ७४ ॥
( व्या० ) अस्तीति । हे कुलीने स्त्रीणां चेत् यदि औचित्या परिचिता औचितिगुणयुक्ता पत्युक्तिः पतिभक्ति' आत्मनो वशमधीनमात्मवशं संवननं वशीकरणमस्ति । तत् तस्मात् कारणात् मृगस्य नेत्रे इव नेत्रे यासां ताः स्त्रिय मूलमंत्राश्च मणयश्च तैः किमु किमर्थ विभ्रमं (भजोविण । ५ । १ । १४६ । इ. सू. विभ्रमपूर्वकभज्धातोर्विण् | भजन्तीति भ्रमन्ति ॥ ७४ ॥
भोजिते प्रियतमेऽहनि भुङ्के, या च तत्र शयिते निशि शेते । प्रातरुज्झति ततः शयनं प्राक्, सैव तस्य सुतनुः सतनुः श्रीः ॥७५॥
I
( व्या० ) भोजित इति । यात्री प्रियतमे भर्तरि अहनि दिवसे भोजिते सति भुंक्ते । च पुनः या स्त्री तत्र प्रियतमे निशि रात्रौ शयिते सति शेते । प्रातः प्रभाते ततः प्रियतमात् प्राक् पूर्वं शयनमुञ्झति व्यजति । प्रियतमस्य भर्तु सेव सुतनुः शोभना तनुर्यस्याः सा स्त्री सतनु तन्वा सह वर्तते इति सतनुः मूर्तिमती श्रीलक्ष्मीः स्यात् । उक्तं च- 'अनुकूला सदा तुष्टा दक्षा साध्वी विचक्षणा । एभि पंचगुणैर्युक्ता श्रीरिव श्री न संशय ॥ ७५ ॥
+
7