________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग. ५ (१८७
त्वं परां नृषु यथांचसि कोर्टि, स्त्रीनिमे अपि तथा प्रथिते तत् । . प्रेम्णि वीक्ष्य घनतां जनता वः, स्थैर्य मावहतु दंपतिधर्मे ॥ ६७ ॥
(व्या०) त्वमिति । हे नाथ त्वं नृषु पुरुषेषु यथा परां कोर्टी अग्रविभागं अञ्चसि प्राप्नोपि । तथा इमे अपि सुमंगलासुनन्दे स्त्रीपु प्रथिते विख्याते तत् तम्मात् कारणात् जनता ( ग्रामजनबन्धुगजसहायात्तल् । ६ । २ । २८ । ई. सू. जनादात् समहेऽर्थे तल । ) जनानां समूहो वो युष्माकं प्रेमिण नेहे धनतां दृढतां वोक्ष्य दम्पतिधर्मे जाया च पतिश्च दंपती (राजदन्तादिषु । ३ । १ । १४९ । इ. सू. दम्पतीशब्दो निपात्यते) तयोर्धर्मस्तस्मिन् स्थैर्य स्थिरत्वमावहतु ॥ ६७ ॥ प्राप्तकालमिति वाक्यमुदित्वा, मोदभाजि विरते सुरराजे । आलपत् कुलवधूसमयज्ञा शच्यपि प्रथमनाथनवोढे ॥ ६८ ॥
(व्या०) प्राप्तकालमिति । कुलवधूसमयज्ञा कुलवधूनां समया आचारास्तान् जानातीति शच्यपि इन्द्राणी अपि प्रथभनाथनवोढे प्रथमश्चासौ नाथश्च प्रथमनाथः श्रीआदिदेव तस्य नबोढे कलने ते सुमंगलासुनन्दे अलपत् उवाच । क सति प्राप्तकालं प्राप्ताबसरं इति पूर्वोक्तं वाक्यं उदित्या कथयित्वा मोदभाजि मोदं हर्षे भजतीति तस्मिन् सुरराजे सुराणां देवानां राजा सुरराजस्तस्मिन् इन्द्रे विरते निवृते सति ॥ ६८ ॥ यस्य दास्थमपि दुर्लभमन्यै-स्तत्प्रिये बत युवां यदभूतम् । भाग्यमेतदलमत्र भवत्योः, का प्रवक्तुमलमत्रभवत्योः ॥ ६९ ॥
(०या०) यस्येति । हे कुलीने यस्य भगवतो दास्यमपि अयैर्दुभं दुःखेन लभ्यते इति दुर्लभं वर्तते । बत इति वितर्के यत् यस्मात् युवां तत्प्रिये तस्य स्वामिनः प्रिये तत्प्रिये दयिते अभूतं जाते । एतत् अलं अत्यर्थ अत्रभवत्यो. पूज्ययो भवत्योयुयोर्भाग्यमत्र जगति कः पुमान् प्रवक्तुं हर्षेण जल्पितुं अलं समर्थों भवेत् अपितु न कोऽपि ॥ ६९ ॥ देवदेवदि ये निविशेथे, ते युवां न भवथोऽन्यविनेये । स्वान्तमेव मम धृष्टधुरीणं, यच्छिशिक्षयिषु वामपि कामम् ॥ ७० ॥