________________
१८६) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् सर्ग: ५ ॥
दोपात् स्पष्टनैकगुणं स्पष्टाः प्रकटाः नैके अनेके गुणा यस्य तं प्रकटानेकगुणं जनं न उति न त्यजति । अनल्पगुणान्या न अल्पा: अनल्पा बहव ते च ते गुणाश्च विनयादिगुणा तन्तवो वा तैराढ्या समृद्रा चंचलापि पताका कुलमूर्ध्नि कुलमावास गोत्रं वा तस्य मृर्ध्नि मस्तके न धीयते किं अपितु धोयते ॥ ६४ ॥ ist रनयोरनयोsपि, स्वामिना समुचितो ननु सोढुम् । कारिकामु सिकताधिकतायाः, किं प्रकुप्यति नदीषु नदीशः ||६५ ||
1
( व्या० ) मौग्ध्य इति ॥ हे नाथ अनयोर्वध्वोः अनयोऽपि अन्यायोऽपि स्वामिनो ननु निश्चितं सोढुं समुचितो योग्य । किं विशिष्टोऽनयः मोग्ध्यहेतुः मुग्धस्य भावो मौग्ध्यं मुग्धत्वं तदेव हेतु कारणं यस्य सः । नदीनां ईशः नदीश समुद्र कि नदीपु प्रकुप्यति कोपं कुरुते अपि तु नैव । किं लक्षणासु नदीषु सिकतानां पालुकानां अधिकता आधिक्यं तस्या: कारिकासु (णकतृचौ । ५ । १ । ४८ । इ. सू. कृघातो. कर्तरिणकः आत् इ सू आप् । अस्यायतत्क्षिपकादीनाम् । २ । ४ । १११ । इ. सू. अस्य इकार ) कुर्वन्तीतिकारिकास्तासु कुर्वाणासु ॥ ६५ ॥
मन्तुमन्तमपि भावविशुद्धं, शुद्धमेव गणयन्ति गुणज्ञाः । मान्य एव शुचिरन्तरिहेम्ब - स्त्रैणकंठरसिकोऽपि हि हारः ॥
६६ ॥
( व्या० ) मन्तुमन्तमिति । हे नाथ गुणज्ञाः (आतोडोsह्वावाम । ५ । १ । ७७ । इ. सू. गुणपूर्वकज्ञाघातोर्ड प्रत्ययः । डित्यन्त्य इ. सू.. अन्त्य - स्वरलोप | ) गुणान् जानन्ति इति गुणज्ञा पुरुषा मन्तुमन्तमपि मन्तुरपरा - धोऽस्यास्तीति (कृतिक्रम्य मिगमितनिर्मानजन्यसिमसि - तुन् । ७७३ । इ. उ. सू. मन्धातो तुन् प्रत्यय 1 ) मन्तुमान् तं अपराधिनमपि पुरुपं भावेन विशुद्धः भावविशुद्धरतं शुद्धमेव गणयन्ति । इहैप दृष्टान्त हि नथितं इभ्यस्त्रैणकंटरसिकोऽपि स्त्रीगां समूह खेणं (प४या समूहे । ६ । २ । ९ । इ. सू. समूहेऽर्थे स्त्रीशब्दात् । प्राग्वतः स्त्रीपुंसान्नञ् नञ् । ६ । १ । २५ । इ. सू. नव् प्रत्ययः । ) इभ्या धनवन्तः तेपां स्त्रैण स्त्रीसमूह' तस्य कंठे रसिकोऽपि कंटासक्तोऽपि हार. अन्तर्मन्ये शुचि सन् मान्य एव ॥ ६६ ॥