________________
श्रीजैनकुमारसम्भवाव्यं महाव्यम् टीकासमलंकृतम् ॥ सर्ग: ५ (१८५
( ०या० ) अन्तरेणेति । हे नाथ नारी स्त्री पुरुषं ( गौणात् समयानिकषाहाधिगन्तरान्तरेणातियेन तेनैद्वितीया । २-२ - ३३ । इ. सू अन्तरेण योगे पुरुषमित्यत्रद्वितीयाः । ) अन्तरेण विना न विभाति न शोभते । पुरुषोऽपि तां नारों विना (विना ते च तृतीया । २-२ - ११५ । इ. सू. विनायोगे नारीमित्यत्रद्वितीया । ) न विभाति न शोभते अत्र दृष्टान्तमाह शाखा पादपेन वृक्षेण रुचि शोभां अञ्चति प्राप्नोति । सोऽपि पादपोऽपि पादपो वृक्षः शाखयैव सकल. संपूर्णो वर्तते संपूर्णशोभां प्राप्नोति ॥ ६१ ॥
मुक्तिरिच्छति यदुज्झितदारं, स्त्री स्त्रियं नहि सहेत स हेतुः । कामयन्त इतरे तु महेला - युक्तमेव पुरुषं पुरुषार्थाः ॥ ६२ ॥
( व्या० ) मुक्तिरिति । मुक्तिर्मोअरूप पदार्थः यत् यस्मात्कारणात् उज्झिताः द्वारा येन स तमुज्झितदार व्यक्तकलत्रं ' दाराः पुसि च भूनि च ' इत्यमरः । इच्छति । स हेतुरयं ज्ञेय स्त्री नारी स्त्रियमन्यां नारों नहि सहेत । इतरे धर्मार्थकामा · पुरुषार्था. • महेलयायुक्तस्तं महेलायुक्तमेव स्त्रीसहितमेव पुरुषं कामयन्ते इच्छन्ति ॥ ६२ ॥
योषितां रतिरलं न दुकूले, नापि हेम्नि न च सन्मणिजाले । अन्तरंग इह यः पतिरंगः, सोऽदसीयहृदि निश्चलकोश: ।। ६३ ।।
( व्या० ) योषितामिति ॥ हे नाथ योषितां स्त्रीणां अलं अत्यर्थ दुकूले पट्टकूले न रति । नापि हेम्नि सुवर्णे च पुन सन्मणिजाले सन्तश्चते गणयश्च सन्मणयस्तेषां जालं तस्मिन् प्रशस्यमणिसमूहे न रतिः । इह जगति अन्तरंगो यः पतिरंग· पत्युः रंग स पतिरंग अदसीयहृदि अमूषां (तस्येदम् । ६ । ३ । १६० । इ. सू. इदमर्थे दोरीय' । ६ । ३ । ३२ । इ. सू. ई. । ) इदं हृदयं तस्मिन् निश्चिलको भांडागारः ॥ ६३ ॥ स्पष्टनैकगुणमुज्झति नैका - दीनवाज्जनमदीनमनस्कः | चंचलापि किमनल्पगुणाढ्या, धीयते न कुलमूर्ध्नि पताका ॥ ६४ ॥ ( व्या० ) स्पष्ट इति । हे नाथ न दीनं अदीनं मनो यस्य स अदीनमनस्कः उदारहृदयः एकादीनवात् एकश्चासौ आदीनवच ढोप' तस्मात् एक