________________
१८४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५
भतुः । मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मों वः । २ । १ । ९४ । इ. सू. मतोमस्य व. भगमैश्वयभस्याम्तीति भगवान् ।) आते स्तः । अतोहेतोस्तयोः कन्ययोरुपरि प्रेम स्नेहो जातु कदाचिदपि नश्लथनीयं (तव्यानीयौ । ५-१-२७ इ. मू. श्लथ्वातोः अनीय ।) न न्यून कार्य भवतेति शेषः ॥ ५८ ॥ यः परोऽपि विभुमाश्रयतेऽसौ, तस्य पुण्यमनसः खलु पाल्यः । किं पुनः कुलवधूरवधूय, प्रेम पैतृकमुपान्तमुपेता ॥ ५९ ॥
(व्या०) यः इति । हे नाथ यः परोऽपि अन्योऽपि विभुं स्वामिन आश्रयते । खलु निश्चितं असौ पुमान् पुण्यं मनो यस्य सः पुण्यमना: तस्य विभोः स्वामिनः पाल्यः रक्षणीय. स्यादिति । किंपुनः कुलवधूः कुलवधूनां किमुच्यते । या कुलवधू पैतृकं पितुरिदं तत् पितृसंबंधि प्रेम स्नेहमवधूय त्यक्त्वा उपांतं. स्वामिसमीपं उपेता समेता ॥ ५९ ॥ ये द्विपत्सु सहना इह गेहे-नर्दिनः प्रणयिनी प्रति चंडाः । ते भवन्तु पुरुषाश्चरितार्थाः, श्मश्रुणैव न तु पौरुषभग्या ॥६० ॥
(व्या०) ये इति । हे नाथ ये पुरुषाः इह जगति द्विषत्सु वैरिषु सहन्ते इति सहना भमापरा वर्तन्ते । किंलक्षणा ये गेहे नर्दन्तीति गेहेनर्दिनः पात्रेसमितत्यादयः । ३ । १ । ९१ । इ. सू. सप्तम्या अलुक्) गेहे शूगः । पुनः किंलक्षणाः प्रगयिनी कलत्रं प्रति चंडारौद्रा सन्तोति शेषः । ते पुरुषाः २मश्रणय (श्मनि मुखैकदेशे शेते इति श्मश्रु । श्मनः शीडोडित् । ८१० । इ. उ सू श्मन्पूर्वकशीड्धातोः रुप्रत्यय ) कूपनैव चरितोऽर्थो येषां ते चरितार्था. सत्यार्था भवन्तु सन्तु न तु पौरुषभन्या पुरुपस्येदं कर्म पौरुपं तस्य भंगिः व्युत्पत्तिस्तया न तु. पराकमव्युत्पत्या । उक्तं च-'पात्रे त्यागी गुणेरागी, भोगी परिजन. सह । शास्त्रे बोद्धा रणे योद्धा, पुरुप. पञ्चलक्षणः ॥ १॥ इति पुरुपलक्षणहीनत्वात्तेपाम् ॥ ६० ॥ अन्तरेण पुरुष नहि नारी, तां विना न पुरुषोऽपि विभाति । पादपेन रुचिमञ्चति शाखा, शाखयैव सकलः किल सोऽपि ।। ६१ ॥