________________
धीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५ (१८३
व्याकरणानां आकरस्तस्य संबोधनं । वाक्यतिः बृहस्पतिः ते तव रूपसिद्धिमपि रूपं शरीरस्य तस्य सिद्धि: पक्षेरूपसिद्धिः शब्दसिद्धिस्तामपि वर्णयितुं न ईश. न समर्थः । यच्चतुष्ककलनापि यस्य भगवतः चतुष्कावसरः सभावसर तस्य कलनापि दुरापा दु खेन आप्यते इति दुरापा (दुःस्वीपतः कृष्छाकृच्छ्रार्थात रूलू ५ । ३ । १३९ । इ. सू. दु पूर्वकआपधातो. खल । आत् इ. सू. आप् ।) दुःप्राया वर्तते । तद्धितप्रकरणं तस्य भगवतो हितप्रकरणं तदा को मनुते जानाति अपि न कोऽपि यस्य चतुष्के सभायामपि गन्तुं न शक्यते तस्य हितप्रकरणं हितचिन्ता कथं क्रियते । द्वितीयेऽर्थे तस्य लक्षणाकरस्य तद्वितप्रकरणं तद्धितवृत्ति को मनुते यस्य चतुष्कस्य आधवृत्ते. कलनापि दुगपा दुपाया अस्तीति ।। यन्महः ममुपजीव्य जडोऽपि, स्यात् कलाभूदिति विश्रुतिपात्रम् । यन्नये विनयनं तव तस्य, द्योतनं द्युतिपतेस्तदधीश ।। ५७ ॥
(व्या०) यन्महः इति । हे नाथ यस्य तब मह' यन्महस्तत् समुपजीव्य जडोऽपि मुखोऽपि कलामृत् कला बिभर्तीति विश्रुतिपात्रं विश्रुतेः पात्रं (नीदाम्ब
सयुयुज्स्तुतुदसिसिभिहपतपानहस्त्रट । ५ । २ । ८८ । इ. सू पाधातो जद पिबन्ति अनेनेति पात्रम् ।) स्थानं कलावान् इति विश्रुतिपात्रं ख्यातिस्थान स्यात् । पक्षे यन्मह' यस्य द्युतिपते. सूर्यस्य महस्तेजः समुपजीव्य जडोऽपि चन्द्र कलाभृत् स्यात् । अमावास्यायां सूर्याचन्द्रमसौ संगतौ स्याताम् । ततश्चन्द्रः सूर्यात्तेजः प्राप्य प्रतिपदि गोभिर्विलोक्यः स्यात् द्वितीयायां मानुषैः । एवं कलाधर इति प्रसिद्धः स्यात् तस्य तब नये न्यायविषये यद् विनयनं शिक्षणं हे अधोश तत् द्युतिपतेः सूर्यस्य द्योतनं प्रकाशन वर्तते ॥ ५७ ॥ चचिम किचन पुनः प्रभुभक्त्या, ये इमे ऋजुमती कुलकन्ये । आदृते भगवता सुविनीते, प्रेम जातु न तयोः श्लथनीयम् ॥ ५८ ॥
(व्या०) वच्मि इति । हे नाथ अहं पुन: किंचन प्रभोभक्तिस्तया प्रभुभक्त्या वच्मि वदामि । ये इमे ऋजुमनी विचक्षणे सुविनीते कुलकन्ये सुमंगलासुनन्दे भगवता (तदस्याऽस्यस्मिन्निति मतुः । ७-२-१ । इ. सू. भगशब्दात