________________
१८२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम सर्गः५॥
अप्सरोभिरिति कौतुकगाने, ऽप्यस्य न स्मरवशत्वमभाणि । मास्म लजिततरस्तरुणीना-मिष्टमेष कषदेकभटस्तम् ॥ ५४॥
(व्या०) अप्सरोभिरिति । अप्सरोभिर्देवांगनाभिः (आप्यन्ते पुण्यैरितिअसरस आपोऽपाप्ताप्सगजाश्च । ९६४ । इ. उ. सू. आप्लंट व्याप्तो इति धातोः अस् प्रत्ययः आप्वातो असर आदेशः ।)इत्यस्मात्कारणात् कौतुकेन गानं तस्मिन् कौतुकगाने कौतुकेनगीतगानमध्येऽपि अस्य भगवतः स्मरवशत्वं स्मरस्य कामस्थ पशवमधीनत्वं न अमाणि न भणितम् । इतीति किं एकश्चासौ भटश्च एकभटः एष भगवान् लजिततर लजितः सन् तरुणीनां स्त्रीणां इष्टं तं स्मरं कंदप्पै मा स्म कषत् (सस्मे ह्यस्तनी च । ५ । ४ । ४० । इ. सू. स्मयु माडि उपपदे कधातोः ह्यस्तनी। अड्धातोरादिस्तिन्यां च माडा । ४ । ४ । २९ । इ. सू. माड्योगे अडभाव ) मास्भ हिंसीत् ॥ ५४ ॥ नेत्रमंडलगलज्जलधारा-धिष्ण्यबंधुरिमधूर्वहदेहः । तं शतक्रतुरथोकृतकृत्यः, स्वर्यि यामुरभिवन्ध जगाद ॥ ५५ ॥
(व्या०) नेत्र इति । जथो अथानंतर शतं कतबो यस्य स शतक्रतु: इन्द्र कृतानि कृत्यानि येन स कृतकृत्यः निष्पादितसर्वकार्य सन् स्वर्यियासुः) (सन् भिक्षासंशेरु । ५-२-३३ । इ. सू. सन्नन्तात् यियास्धातोः उप्रत्ययः।) स्वः स्वर्ग यातुमिच्छु स्वर्गगमनेच्छुः तं भगवन्तमभिवंय जगाद स्थाने मुक्या इत्यूचिवान् । किंलक्षण इन्द नेत्रयोमंडलं तस्मात् गलत् यत् जलं तस्य धारायाः धियं (धृष्णुवन्ति अस्मिन् विष्ण्यं । शिक्या स्यात्या । ३६४ । इ उ. सू. यप्रत्ययान्तोनिपातः) गृहं धारागृह तस्य बंधुरिमा मनोजत्वं तस्य धूर्वहो भारवाहो देह शरीर यस्य स नेत्रमंडलालजलधाराधिप्ण्यवंधुरिमधूहदेहः ॥ ५५ ॥ रूपसिद्धिमपिवर्णयितुं ते, लक्षणाकर न वाक्पतिरीशः । यच्चतुष्ककलनापि दुरापा, तद्धितप्रकरणं मनुते कः॥५६॥
(व्या०) रूपसिद्धि मिति । हे लक्षणाकर भंगारचामरयुगध्वजयुग्मशंख मंजीर नीधिस रेत् पुष्करिण्य इत्यायष्टोत्तरसहनलक्षणानामाकरो यः पक्षे लक्षणानां