________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग ५ (१८१
( व्या० ) असदेशमिति । अथानंतरं नयशाली नयेन शानते इति नयशाली हरिरिन्द्रस्तं भगवन्तं स्वमात्मोयं अमस्य देशस्तं रकंधप्रदेशं अनयत् । शच्यपि इन्द्राणी अपि वव्यौ सुमंगलानन्दे स्वं असदेशमनयत् । क्रिकर्तु अस्य अंसदेशस्य अखिलाने अपघनाथ ( निधो सोनाऽपघनोपनं निमित्त प्रशस्तगगाऽसाधाङ्ग ISSसन्नम् । ५ । ३ । ३६ । इ. सू. अपपूर्वक हन्धातो. अपघननिपातः ) तेभ्यः समस्तावयवेभ्यो विश्रुतं विख्यातं शक्तिरस्यास्तीतिशक्तिमत् तस्य भावः शक्तिमत्वं शक्तियुक्ततां किमु परीक्षितुम् ॥ ५१ ॥ विश्वविश्वविभुना परिणद्वै - कांसभूरपि विभुः स ऋभूणाम् । संगतांसयुगलामवलाभ्यां न स्वतः प्रणयिनीं बहु मेने ॥ ५२ ॥
5
( व्या० ) विश्व इति । ऋभ्रूणां देवाना विभु स्वामी स इन्द्र विश्वविश्वविभुना विश्वं च तत् विश्वं च तस्य विभु स्वामी तेन समग्रविश्वाधिपेन परिणद्वैकांस भूरपि परिणा व्याप्ता एकस्यांसस्य भूः स्थानं यस्य स सन् उम्राभ्यां सुमंगला सुनन्दाभ्यां अचलाभ्यां संगतांसयुगलां संगतं मिलितं अंसयोर्युगलं यस्याः सातां मिलितस्कंधयुगलां अपि प्रगयिनों इन्द्राणी रवत आत्मनो न बहु मेने । कोऽर्थः इन्द्रेण भगवान् एकस्मिन् स्कंधे आरोपितः इन्द्राण्या उभयो स्कंघयोर्वधूयुग्भमारोपितम् । तेनात्मानं न्यूनत्वेन न मेने । भगवानेकोऽपि गुरु वध्र्वौ तु अबले इति भाव ॥ ५२ ॥
1
तत्र तौ प्रमदनिर्मितनृत्यौ, तंच तेच परितोषयतः स्म । क्ष्मां तदह्निकमलस्पृहयालु, प्रक्षरत्सुमचयैः सुखयन्तौ ॥ ५३ ॥
( व्या० ) तत्र इति । तत्र तस्मिन्नवसरे तौ शचीन्द्रौ प्रमदनिर्मितनृत्यौ प्रमदेन हर्षेण निर्मित नृत्यं (ऋदुपान्त्याकृपिचूडच' । ५ । १ । ४१ । इ सू नृत्धातो. क्यप् । ) याभ्यां तौ तं च भगवन्तं ते च वब्वौ परितोषयत स्म । किंकुर्वन्तौ तौ शचीन्द्रो तद्दिकमलस्पृहयालुं तस्य भगवतः अंही चरणौ एव कमले तयो' स्पृहयालु (शीश्रद्वानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुं । ५ । २ । ३७ । इ. सू. स्पृहिधातोराल 1) स्पृहणगीलां क्ष्मां पृथ्वीं प्रक्षरन्तश्चते सुमानां पुष्पाणां चयाश्वतैः पतद्भि पुष्पसमृहै सुखयन्तौ सुखं कुर्वन्तौ ॥ ५३ ॥
: