________________
१८०) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंहतम् ॥ सर्ग: ५
मुदं हर्ष प्रदत्ते इति प्रददान• पक्षे कांचनं सुवर्ण प्रभुपूजायाः फलं देवचणेण रज्झं इति वचनात् ॥ ४८ ॥ हस्तिनो हसितमेरुमहिम्नो, गांगपूरवदथावरतरन्तम् । वासवः शमितपातकतापं, तं दधौ घुगतमेव बलोग्रः॥४९॥
(व्या०) हस्तिन इति । अथानन्तरं वास इन्द्रः तं भगवन्तं हस्तिन ऐरावणात् अवतरतीति अवतरन् तं धुगततेव दिवंगतः तं आकाशस्थमेव दधौ धृतवान् । किं वि० इन्द्र. बलेन उप्र: बलोग्रः उत्कटः । अथवा उप्र. ईश्वरः । यथा उस ईश्वरः मेरो मेरुपर्वतात् अवतरन्तं गांगपूर (गङ्गायाः इदं गाङ्गं तस्येदम् । ६ । ३ । १६० । इ. सू. गङ्गाशब्दात् इदमर्थे अण् । स्यादेरिवे ७ । १ । ५२ । इ. सू. गागपूर शब्दात् सारयेऽर्थे वत् गागपूरिमिव गाङ्गपूरवत् । ) गंगायाः पूरं धुगतमेव दधौ । किविशिष्टात् हस्तिनः हसित: मेरोमहिमा येन स तस्मात् हसितमेरुमहिम्नः कीदृशं भगवन्तं शमितः पातकानां तापो येन तं शमितपातकतापम् ॥ ४९ ॥ हेमकान्ति हरिणा हरिणाक्षी-यामलं पुनरदीयत शन्यै । पाणिभूषणतण क्षणमस्या-स्तत् मुवृत्तमभजलवाभाम् ॥ ५० ॥
(०या०) हेमकान्ति ॥ हरिणा इन्द्रेण हेम सुवर्ण तद्वत् कान्तिर्यस्य तत् हेमकान्ति हरिणाक्षीयुगलं हरिणस्य मृगस्य अक्षिणी एव अक्षिणी ययोस्ते हरिणाल्यौ (उमुखादयः । ३ । १ । २३ । इ. सू. व्यधिकरणबहुव्रीहिः । सक्थ्यदा स्वाङ्गे । ७-३-१२६ । इ. सू. ट समासान्त । अणयेकण-म् २। ४ । २० । इ. सू. खियां डी. 1) तयोर्यामलं युगलं तत् हरिणामीयामलं वधूयुगलं पुनः शच्यै इन्द्राण्य अदीयत दत्तम् । तत् हरिणाक्षीयामलं क्षणं अस्या. शच्या पाण्योभषणता तया हस्ताभरणत्वेन वलययोराभां वलयामां कंकणशोभामभजत् किलणं हरिणाक्षीयामलं मुवृत्त शोभनवृत्तं चरित्रं यस्य तत् सुष्टु वृत्त वृत्ताकारम् ॥ ५० ॥ असंदेशमनयन्नयशाली, तं हरिः स्वमथ शच्यपि वध्वौ । शक्तिमत्त्वमखिलापधनेभ्यो, विश्रुतं किमुपरीक्षितुमस्य ॥५१॥