________________
श्रीजनमारसम्भवायं महाव्यम् टीकासमलंकृतम् ॥ सर्गः ५ (१७९
प्रागपि प्रभुरभद्रमणीयः, काधिकास्यविदधे विबुधैः श्रीः यत्त एव परियंत्यमुमन्या, तदिक्षुरितिसेव्यमुवा च ॥४६॥
(व्या०) प्रागिति । अन्या स्त्रो तस्य स्वामिनो द्रष्टु मिल्छुः दिक्षुः (सन् भिक्षासेरु. । ५ । २ । ३३ । इ. सू. सन्नन्तात् दिदृक्षधातोः प्रत्ययः) तं भगवन्तं द्रष्टु मिच्छुः सती इति अमुना प्रकारेण सेप्य ईO सहितं यथा भवति तथा उवाच । इतीति किं प्रभुः स्वामी प्रागपि अग्रेऽपि रमणीयोऽभत् । (प्रवचनीयादयः । ५। १ । ८ । इ. सू रम्धातो कतरि अनीयः ।) विबुधैर्दवरस्य भगवत. का अधिका श्री शोभा कृता । यत् यस्मात् कारणात् ते . एव देवा एवं अमुं भगवन्तं परियंति परिवृण्वन्ति ॥ ४६ ॥ मुश्च वर्मसखि पृष्टगतापि, त्वं निभालयसि नाथमकृच्छम् । इत्युपात्तचटुवाक् पुरतोऽभूत, कापिखर्वत्रपुरुचतरांग्याः ॥ ४७॥
(व्या०) मुञ्च इति । कापि खर्व हस्वं वपुः शरीरं यस्याः सा वामनगरीरा स्त्री । उच्चतरं अंग यस्याः सा तस्या उच्चस्तराङ्गायाः) नासिकोदरौष्ठजलादन्तकर्णशङ्गाङ्गगात्रकण्ठात् । २ । ४ । ३९ । इ. सू. अङ्गशब्दात् स्त्रियां डी:) स्त्रियाः इति अभुना प्रकारेण उपात्तचटुवाक् उपात्ता गृहीता चाटुवाक् यया सा गृहीतचाटुवचनासती पुरतोऽग्रेअभूत् इतीति किं हे सखि त्वं वर्म मार्ग मुश्च । त्वं पृष्ठंगता पृष्ठातापि पृष्टस्थितापि सती नाथं स्वामिन अकृळू सुखेन निभालयसि विलोकयसि ॥ ४७ ॥ एवम तरसोंभितनारी-नेत्रनीलनलिनांचितकायः । तासु कांचनमुदं प्रददानः, स्वालयाप्रमगमजगदीशः ॥४८॥
(व्या०) एवमिति । जगदीशः जगतामीशी जगन्नाथः स्पालयानं स्वस्थ आलयस्य अग्रं स्वीयावासद्वार अगमत् । किलक्षणो जगदीशः एवं पूर्वोक्त प्रकारेण अद्भुतरसोंभितनारीनेत्रनीलनलिनांचितकायः अद्भुतश्चासौ रसश्च तेन उंभिताः पूरिता ताश्वता: नार्यश्च तासां नारीणां नेत्राणि नीलानि नलिनानि कमलानि तैः कमलैः अंचितः पूजितः कायो देहो यस्य सः । तासु नारीषु कांचन अपूर्वी