________________
१७८) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् सर्गः५॥
कंठाभरणं पदि चरणे निवेश्य पदांगद नू पुरं उच्चैः कंठ एव पीठं तस्मिन् लुटितं कंठपीठठित रचयन्ती । पुनः किंलक्षणा स्त्री मन्जनात् स्नानात परं अनंतर असंयतकेशी (असहनविधमानपूर्वपदात् स्वाङ्गादकोडादिभ्यः । २-४-३८ । इ. सू. स्वागवाचिकेशशब्दात् वा डीः ।) न संयताः असंयताः केशा यया सा अबकुन्तला । वैपरीत्यविधृतांशुकयुग्मा परिधानवस्त्रं शीर्षे शीर्षवस्त्र परिधाने एवं वैपरीत्येन धृतं अशुंकयोर्वस्त्रयोयुग्मं यया सा ॥ ४२-४३ ॥ युग्मम् ॥ यौवतेन जविना वरवीक्षा-धाविना विधुरितप्रसरान्या । पत्युरिष्टमपि मन्दितचारं, स्वं निनिन्द जघनस्तनभारम् ॥ ४४ ॥
(०या०) यौवतेन इति ॥ अन्या स्त्री पत्युरिष्टमपि भर्तुरभीष्टमपि मन्दितचार मन्दितः चारो गमनं येन त मन्दीकृतगमनं स्वं आत्मीयं जघनस्तनभारं जधनं च स्तनौ च एषां समाहारस्तस्य भारस्तं निनिन्द । किलक्षणा अन्या जवोऽस्यास्तीति जवि तेन वेगवता यौवतेन (षष्ठयाः समूहे । ६ । २ । ९ । इ. सू. युवतिशब्दात् समूहेऽर्थे अण् । वृद्धिः स्वरेष्वादेणिनि तद्धिते । ७ । ४ । १ । इ. सू. आदिस्वरवृद्भिः ।) युवतीनां समूहस्तेन विधुरित प्रसरो यस्याः सामन्दीकृतत्वरितगमना। किंलक्षणेन यौवतेन वरस्य वीक्षा प्रेक्षणं तदर्थ धावतीति तेन ॥ ४४ ॥ निनिमेषनयनां नखचर्या-ऽस्पृष्ठभूमिमपरामिह दृष्ट्वा । को नु देव्यजनि पश्यत देव-ध्यानतोद्रुतमसावितिनोचे ॥४५॥
(व्या०) निर्निमेषनयनामिति । इह समुदाये अपरां त्रियं निनिभेषनयनां निनिमय नयने यस्या. सा तां निमेषरहितलोचना नखानां चर्यया (समजनिपनिषद् शीमुग्विदिचरिमनी णः । ५ । ३ । ९९ । इ. सू. चातो वे क्यप् चरणं चर्या । ) अस्पृष्टा भूमिर्यया सा तां दृष्ट्वा कः पुमान् इति न ऊचे । इतीति कि भो भो जना पश्यत असौ स्त्री नु इति वितर्के देवस्य प्रभोर्ध्यानात् इति देवघ्यानतः द्रुतं शीघ्र देवी अजनि । यतो देवतापि निनिमपनयना अस्पृष्ट. भूमिश्वस्यात् । 'चतुरंगुलेण भृमि न छिवंति सुरा जिणाविति' इति वचनात् ।।