________________
१७६) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ।। सर्गः ५
स्तासु आत्मीयावासस्थितासु ललनासु स्त्रीषु आकृष्टिमंत्रतुलनां आकृप्टेराकर्पणस्य यो मंत्रतिस्य तुलनां (णिवेत्यासश्रन्थधव-देरनः । ५ । ३ । १११ । इ. सू. तुलधातो. अनप्रत्ययः । आत् इ. सू. स्त्रियामाप् ।) समतां वभार । कोऽर्थ. तूरपूरनिनदेन (नेनंदगदपठस्वनक्कण । ५ । ३ । २६ । इ. सू. निपूर्वकनदधातो. भावाकोंर्वाल ।) स्वामिनं नवपरिणीतं सवधूकमागच्छन्तं श्रुत्वा स्त्रियः स्वव्यापार विमुच्य गता विलोकनायेति भावः ॥ ३७॥ पंक्तिमौतिकनिवेशनिमित्तं, स्वक्रमांगुलिकया धृतसूत्राम् । हारयष्टिमवधूयदधावे, वीरुधं करिवधूरिव काचित् ॥ ३८ ॥
(व्या०) पंक्ति इति ॥ काचित् स्त्री हारयष्टिं अवधूय अवगणय्य दधावे धाविता । केव करिवधूरिव करिणोवधः यथा करिवधूहस्तिनी वीरुधं वल्ली अवघय धावति । कि वि० हास्यष्टिं पंक्तिमौक्तिकनिवेशनिमित्तं पंक्त्या मौक्तिकानां निवेशन स्थापनं तन्निमितं स्वस्य क्रम पादस्तस्य अंगुलिका तथा आत्मीयचरणांगुलिकया धृतं सूत्रं यस्था सा तां धृतसूत्राम् ॥ ३८ ॥ कापि नार्धयमितश्लथनीवी, प्रक्षरन्निवसनापि ललाजे । नायकानननिवेशितनेत्रे, जन्यलोकनिकरेऽपि समेता ॥ ३९ ॥
(व्या०) कापि । कापि स्त्री अर्धयमितश्लथनीवीप्रक्षरन्निवसना अर्धयमिता अर्धनिबद्ध। अत एव श्लथा या नीवी मेखला तस्याः प्रक्षरत् पतत् निवसनं वस्त्र यस्याः सा अपि सती न ललाजे न लज्जता । लजाया अभावे हेतुमाह किलक्षणा काचित् जन्यलोकनिकरे लोकानां निकर. समूह: जन्यो यो लोकनिकरस्तस्मिन् समेता आगता नायकस्य स्वामिन आननं वदनं तस्मिन् निवेशित नेत्रे येन स तस्मिन् ॥ ३९ ॥ तत्समिन्निशमनोच्चासितान्या, कंचुकत्रुटिपटूकृतवक्षाः । यौवनोत्कटकटाक्षितकुंतः, पाटितापिमुभटीव पुरोऽभूत् ॥४०॥
(०या०) तदिति ॥ अन्या स्त्री यौवनोत्कटकटाक्षितकुंत यूनो भावो यौवनं तारुण्यं तेन उत्कटा ये तरुणपुरुषास्तेषां ये कटाक्षिता ) सङ्कटाभ्याम् ।