________________
श्रीजैनकुमारसम्भवाख्यं महापाव्यम् टीकासमलंकृतम् ॥ सर्गः ५ (१७५
गीयते इति गानं) तस्य समानं सदृशं तस्मिन् नर्तने नृत्ये सति । अंगहारभरभंगुरहारतरतमौक्तिकमिपामृतबिंदून् अंगहारस्य अंगविक्षेपस्य भरः समूहस्तेन भंगुरत्रुटितोयो (भलिभासिमिदोधुरः । ५ । २ । ७४ । इ. सू. भञ्चातो. घुर भव्यते इत्येवं शोलं भड्गुरं ।) हारस्तस्मात् सस्तानि यानि मौक्तिकानि तेषां मिषेण अमृतस्य विन्दवरतान् अतत विस्तारयति स्म ॥ ३५ ॥ गेय सारधवला प्रमदौथैः, क्लीवदुर्वहकरग्रहचिह्नः। सोऽभ्यगागृहमथो परदेशा-भृमिपाल इव लब्धमहेलः ॥ ३६॥
(व्या०) गेयसार इति ॥ अथो अथानन्तरं स भगवान् गृहमभ्यगात् गृहं प्रतिययौ । किंविशिष्टो भगवान् प्रमदौघैः प्रमदानां स्त्रीणां ओघाः समूहास्तैः गेयसारधवल. गेयाः (आत्सन्ध्यक्षरस्य । ४ । १ । २ । इ. सू. गैधातोरात्वं यएचातः । ५। १ । २८ । इ. सू. गाधातोर्यप्रत्ययः आकारस्य एकारश्च गातुं योग्या. गेयाः ।) सारधवला यस्य सः पुन: किं० क्लीबैः पढदुहं करमहचिह्न पाणिग्रहणचिह्न यस्य स क्लीबैः कातरैर्दुहं करमहत्य सर्वदेशदंडग्रहणस्य चिह्न यस्य सः पुनः किं० लब्धा महती इला पृथिवी इडा स्तुति येन स. लब्धमहेल. (पुम्वत्कर्मधारय । ३-२-५७ । इ. सू. महतीशब्दस्य पुम्वद्भाव जातीयैकार्थेऽच्चे: । ३ । २ । ७० । इ. सू. डाः सन्महत्परमोत्तमोत्कृष्टं पूजायाम् । ३ । १ । १०७ । इ. सू. समासः ।) डलयोरैक्यम् ॥ भूमिं पालयतीति भूमिपालो (कर्मणोऽण् । ५ । १ । ७२ । इ. सू. भूमिपूर्वकपालधातोः अण् प्रत्ययः । अत्युक्तं कृता । ३ । १ । ४९ । इ. सू. समासः) यथा परदेशात् अन्यदेशात् स्वगृहं अभ्येति तत् ॥ ३६ ॥ स्वामिनः पथि यतः पुरतो य-स्तूरपूरनिनदः प्रससार ।। स स्वमन्दिरगतासु बभारा-कृष्टिमंत्रतुलना ललनासु ॥ ३७॥
(व्या०) स्वामिन इति ॥ स्वामिनः श्रीषभदेवस्य पथि मागे यत:गच्छतः सतो य स्तत १ वितत २ धन ३ शुपिराणां च तूराणां पूरस्थनिनदो ध्वनिः प्रससार । स तूरपूरनिनदः स्वस्य मन्दिराणि गृहाणि तानि गताः प्रासा