________________
१७४) श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५
(व्या०) यदिति ॥ मघवा (वन् मातरिश्वन् मूर्धन् लोहन् अर्थमन् विश्व-सन् परिज्वन् महनहन् मधवनवनिति । ९०२ । इ. उ. पू. अन् प्रत्ययान्तो मघवन्शब्दो निपात्यते मङ्घते इति मववा) इन्द्रो यत् ननत नृत्यं चकार । अत्र नृत्ये शंभुभरतौ शंभुश्च महादेवो महानत्वात् भरतश्च भरतशास्त्रकर्ता अनधवाक्त्वं अनधा (उष्ट मुखादयः । ३ । १ । २३ । इ. भू. समासः । अन् स्वरे । ३ । २ । १२९ । इ. सू. नञः अन् । न विद्यते अध यस्यां सा अनघा ।) निर्दूषणा या वाक् वाणी तस्या भावः अनधवाक्य एतापता उपदेशकत्वं न विमृत' स्मः । तु पुन: तद्विवाहविधिसिद्धनिजेप्छाभू तस्य स्वामिनो विवाहस्यविधिः तस्मात् सिद्धा निप्पन्ना या निजस्य इच्छा तस्या भवतीति उत्पन्न प्रमदो हर्ष (संमद प्रमदी हर्षे । ५ । ३ । ३३ । इ. सू. अलन्तः प्रमदशब्दः) एव गुरुरभूत् गुरुराचार्य. प्रौढो वा । गुरुहीना नृत्यादिकलान स्यात् ।। नृत्यतोऽस्य करयुग्ममलासी-न्मुक्तिमेवमुपरोद्धमिवोर्ध्वम् । नात्र नेतरि विरक्तिवयस्यां, संप्रति प्रहिणुया वरणाय ॥ ३४ ॥
(०या०) नृत्यतः इति ॥ अस्य इन्द्रस्य नृत्यतीति नृत्यन् तस्य सतः करयोहस्तयोयुग्मं द्वन्द्वं करयुग्मं अर्धमलासीत् अवमुष्ठलति स्म । मुक्ति उपरोधुमिव । एवमिति किम् । अत्र अस्मिन् नेतरि स्वामिनि संप्रत्यधुना विरक्तिवयस्यां विरतराग्यस्य वयस्यां (हचपचतुल्यमूल्यवश्यपथ्यवयस्यधेनुप्यागार्हपत्यजन्यधय॑म् । ७ । १ । ११ । इ. सू. वयस्यशब्दो यान्तो निपात्यते आत् इ. सू आप वयसा तुल्या वयस्था ।) सखों वरणाय न प्रहिणुयाः नैव प्रेषये ॥ ३४ ॥ अंगहारभरभंगुरहार सस्तमौक्तिकमिषामृतबिन्दून् । अप्सरः सरसगानसमाने, नतेनेऽतत शचीप्रमदाब्धिः ॥ ३५ ॥
(व्या०) अंगहार इति ॥ शचोप्रमदाधिः शच्या इन्द्राण्याः प्रमदो हर्ष. स एव अधिः समुद्रः । अप्सर: सरसगानसमाने अप्सरसा रसेन सह वर्तते इति सरसं यत् गानं (अनट् । ५ । ३ । १२४ । इ. सू. गैधातो. भावे अनट