________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५ (१७३
को न जगाद अपि तु सर्वः कोऽपि जगाद । इतीति किं तृषु पुरुषेषु प्राभवेऽपि (प्रभोर्भाव प्राभवं । वृवर्णालयाद । ७ । १ । ६९ । इ. सू. प्रभुशब्दात् भावे अण) प्रभुत्वेऽपि सति भोजनं योषिदधीनं योषितामधान स्त्रीणामघोनमायत्तं ज्ञेयम् ॥ ३० ॥ वासवोऽथ वसनांचलमोक्षं, निर्ममे विधिवदीशवधूनाम् । विश्वरक्षणपरस्य पुरोऽस्या-ऽचेतनेष्वपि चिरं नहि बंधः ।। ३१ ॥
(व्या०) वासव' इति । अथानंतरं वासव (वसति स्वर्गे इति वासवः । मणिवसेर्णित् । ५१६ । इ. उ सू. वस् धातोर्णित् अब प्रत्ययः । णिति । ४-३-५० । इ. सू. उपान्त्यस्य अस्य वृद्धिः) इन्द्र. ईशवधूनां ईशश्च वध्वः च ईशवध्वस्तासां विधिवत् (तस्या, क्रियायां वत् । ७ । १ । ५१ । इ. सू. विधिशब्दात् अहेऽर्थे वत् प्रत्ययः) लोकोक्तप्रकारेण वसनांचलमोक्ष वसनयोत्रियो अंचले अन्तौ तयोर्मोक्षं निर्भमे कृतवान् । विश्वरक्षणपरस्य विश्वस्थ जगतो रक्षणे परस्य अस्य भगवतः पुगेऽने अचेतनेष्वपि बंधश्चिरं नहि स्यात् । अजीवाणारंभ इत्यागमेऽपि वचनम् ॥ ३१ ॥ ॐठपद्विधुमुखेन्दुनिरीक्षा-मेदुरप्रमदवारिधिवीच्यः । नाकिनां हृदयरोधसि लग्ना-स्तेनिरे तुमुलमम्बरपूरम् ।। ३२ ॥
(व्या०) ॐवदिति ॥ ॐवान् परिणीतप्रभुस्तस्य मुखं पदनमेवइन्दुश्चन्द्र तस्य निरीक्षा निरीक्षणं दर्शनं तस्मात् मेदुरा (भञ्जिभासिमिदो धुर । ५ । २ ७४ । इ. सू. मिद्धातो. शीलादिसदथें घुग्प्रत्यय । लघो रुपान्त्यस्य । ४ । ३ ४ । इ सू. उपान्त्यस्वरगुण) पुष्टा ये प्रमदो हर्ष स एव वारिधिः समुद्रस्तस्य वीच्यः कल्लोलाः । नाकिनां देवानां हृदयरोधसि हृदयमेव रोधस्तदं तस्मिन् लग्ना. सत्य अम्बरपूर अम्बरस्य पूरं आकाशपूरणसमर्थ तुमुलं कोलाहलं तेनिरे कुर्वन्ति स्म ॥ ३२॥ यन्ननते मघवानघबाक्त्वं, नात्र शंभुभरतौ विभृतः स्मः । तद्विवाहविधिसिद्धनिजेच्छा-भूरभूव प्रमद एव गुरुस्तु ॥ ३३ ॥