________________
१७२) श्रीजैन कुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग: ५
वल्भनावसरपाणिगृहीती - वक्त्रसंगमितपाणिरराजत् । जातयत्न इव जातिविरोधं, सोमतामरसयोः स निहन्तुम् ॥ २८ ॥ ( ०या० ) वल्भनावसर इति ॥ स भगवान् चल्मनावसरपाणिगृहीतीव संगमितपाणिः वल्भनस्य भोजनस्य अवसरे पाणिगृहीत्योः ( पाणिगृहीतीति । २ । ४ । ५२ । इ. सू. ऊडायां स्त्रियां पाणिगृहीती शब्दोडयन्तोनिपात्यते । पाणि गृहीतो ययोस्ते पाणिगृहीत्यौ । ) पल्यो वक्त्रे मुखे संगमितो मेलितः पाणिर्हस्तो येन स एवंविध - सन् अराजत् शोभितः । उत्प्रेक्षते - सोमव तामरसं च सोमतामरसे तयो' सोमतामरसयोः चन्द्रकमलयो जातिविरोधं जात्याविरोधस्तं निहंतुं विनाशयितुं जातयत्न इव जातः यत्नो यस्य सः कृतोपक्रम व एतावता पत्न्योः मुखं चन्द्र प्रभोस्त कमलमितिभावः ॥ २८ ॥ भक्ष्य मातुरमे पतिपाणि-स्पर्शपोषितरसं मुदिते यत् । तज्जनेन युवतीजनवृत्तेः पुंस्थवस्थितिरिति प्रतिपेदे ॥ २९ ॥
·
( व्या० ) भक्ष्यमिति ॥ इमे सुमंगला सुनन्दे मुदिते हर्षिते सत्यौ पतिपाणिस्पर्शपोषितरसं पत्युः पाणिः हस्तस्तस्य स्पर्शेन पोषितो रस स्वादो यस्यतत् भक्ष्यं ( भक्षयितुं योग्यं । ऋवर्णव्यञ्जनान्ताद्व्यण् । ५ । १ । १७ । इ. सू. भक्षणू धातोर्घ्यण् । ) आदतु भुंजाते स्म । तत् तस्मात् कारणात् जनेन लोके इति प्रतिपेदे प्रतिपन्नमादृतम् । इतीतिकि युवती ( योः कित् । ६५८ । इ. स. युकूमिश्रणेधातो कित् अतिप्रत्ययः । धातोरिवर्णवर्णस्ये युव स्वरे प्रत्यये । २ । १ । ५० । इ. सू. उवादेश: । इतोऽत्तयर्थात् । २ । ४ । ३२ । ई सू. युवतिशब्दात् स्त्रियां ङी ) जनवृत्तेः खीजनस्य वृत्ते' निर्वाहस्य पुंसि पुरुषे अवस्थितिः अवस्थानं ज्ञेयम् । स्त्रीणां पुरुषा निर्वाह इति भाव ॥ २९ ॥ पाणिना प्रभुरथ प्रणयिन्यो- यत्तदा किमपि भक्ष्यमभुंक्त । प्राभवेऽपि नृपु योषिदधीनं, भोजनं तदिति को न जगाद ॥ ३० ॥ ( व्या० ) पाणिना इति । अथानंतरं प्रभु प्रणयिन्यो पल्यो पाणिना हस्तेन तदा तस्मिन्नवसरे यत् किमपि भव्यं अभुंक्त तत् तस्मात् कारणात् इति