________________
श्रीजैनकुमारसम्भवाख्यं महाव्यम् टीकासमलंकृतम् ॥ सर्गः ५ (१७१
डित् । ३ । ४ । २५ । इ. सू. पोतनानाः आचारे किम् ।) स्म पोतो बालः प्रवहणं वा तद्वदाचरतिस्म । किंविशिष्टे यन्मरीचिनिकरे ननु निश्चित विष्वद्रीचि विश्व समंततः अञ्चतीति विश्वयड् तस्मिन् समंततः प्रसत्वरे 'सादि विष्वग् देवा' इति सूत्रेण विष्वद्रोचिरूपनिष्पत्तिः । पुन: जलानांराशि तस्य जलगशे. समुद्रस्य । वोचिसदृशे वीचीनां सदृशस्तस्मिन् कल्लोलसदृशे ॥ २५ ॥ छत्रमत्रुटितचारिम चोक्षे, चामर शयनमुच्चविशालम् । यन्मनोऽभिमतमन्यदपीन्द्रा-द्वस्तु स स्तुतिपदं तदवाप ॥ २६ ॥
(व्या०) छत्रमिति । अत्रुटितचारिम न त्रुटिलं अत्रुटितं अत्रुटितमच्छिन्न चारिम (पृथ्वादेस्मिन् वा । ७ । १ । ५८ । इ. सू चारुशब्दात् भावे वा इमन् । व्यन्तस्वरादे. । ७ । ४ । ४३ । इ. सू अन्त्यस्वरलोपः) रमणीयत्वं यस्य तत् छत्रं चोक्षे पवित्रे चामरे उच्चविशालं उच्चं च तत् विशालं च शयनं अन्यद(पञ्चतोऽन्यादेरनेकतरस्य दः । १ । ४ । ५८ । इ. सू अन्यशब्दात् सेर्दै ।) पि यद्वस्तु मनोभिमतं मनस. अभिमतं मनोहारि तद्वस्तु स भगवान् इन्द्रात् अवाप प्राप । किं विशिष्ट वस्तु स्तुतिपदं स्तुते श्लाघाया पदं स्थानम् ॥२६॥ नायक स्त्रिभुवनस्य न चार्थी, दायकश्च कथमस्य दिवीशः । किंतु वाहितमुवाच विवाह-प्रांतरं तनुभृतामयमेव ॥ २७ ॥
(व्या०) नायक इति । त्रयाणां भुवनानां समाहारः त्रिभुवनं ( संख्या समाहारे च द्विगुश्चानाम्न्ययम् । ३ । १ । ९९ । इ. सू समाहारद्विगुः ।) तस्य नायकः (णकचौ । ५ । १ । ४८ । इ. सू. नीधातोः कर्तरि णक प्रत्ययः । नामिनोऽकलिहले । ४ । ३ । ५१ । इ. सू. वृद्धि । एदैतोऽयाय् । १ । २ । २३ । इ. सू. आयादेशः । ) स्वामी अर्थी याचको न स्यात् । च अन्यत् दिवीश इन्द्रः अस्य भगवतो दायको दाता कथंस्यात् । किन्तु अयं भगवान् तनुभृतां तनुं शरीरं विनंतीति तनुभृतस्तेषां देहिनां विवाहप्रांतरं विवाहस्य दूरशून्यस्य प्रांतरं मागै एवममुना प्रकारेण वाहितमुवाच उक्तवान् ॥ २७ ॥