________________
श्रीजैनकुमारसम्भवास्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५ (१६९
(व्या०) रोहणाद्रिरिति ॥ यः रत्न पुरा पूर्व रोहणादिबिलवासितया रोहण इति अद्रि पर्वतस्तस्य विलं गुहा तस्मिन् वासितया रोहणाचलसत्कगहरवासिवन अन्योपक्रियानतं अन्येषां उपक्रियाया व्रतं परोपकारकरणवतं अहारि । तदा तस्मिन्नवसरे तै. रत्नै गिरिभिदा ( गिरीन् भिनत्तीति गिरिभिद् किम् । ५ । १ । १४८ । इ सू. गिरिपूर्वकभिद्धातो कतरि क्विप् । ) इन्द्रेण अस्य भगपतो वितीर्णे (क्तक्तवतू । ५ । १ । १७४ । इ सू. विपूर्वकतृधातो कर्मणि क्त । तां विडतीर । ४ । ४ । ११५ । इ. सू ऋकारस्य इभ्वादेर्नामिनो दीवाव्यञ्जने । २ । १ । ६३ । इ सू. इकारस्य दीर्घत्वं । ल्वादेरे
पांतोनोऽप्रः । ४ । २ । ६८ । इ. सू तस्य तस्य नत्वं । रघुवर्णान्नोण एक• पदेऽनन्त्यस्याल चटतवर्गशसान्तरे । २ । ३ । ६३ । इ. सू. नस्य णत्वम् ।) दत्तः सद्भि स्वीयसृष्टिफलमाप्यत प्राप्यते स्म ॥ २१ ॥ याः पुरो मघवतास्य विमुक्ता, स्ता वदामि विशदा सुवि मुक्ताः । क्षारपङ्कवसनादितरासां, क्षीण एव खलु शुक्तिमगर्वः ॥ २२ ॥
(व्या०) याः इति ॥ मधवता ( मध· देवसमा सौख्यं वा अस्थास्तीति मधवान् । तदस्याऽस्त्यस्मिन्निति मतुः । ७ । २ । १ । इ सू. मधदात् मतुः । मावर्णान्तोपान्त-वः । २ । १ । ९४ । इ. सू. मतोर्मस्य वः ) इन्द्रेण अस्य भगवतः पुरोऽग्रे या मुक्ता विमुक्ताः । अहं भुवि पृथिव्यां ता मुक्ता मौक्ति. कानि विशदा उज्ज्वला वदामि ॥ तद्यथा-तारवृत्तगुरुस्निग्धं कोमलं निर्मलं तथा, पद्भिर्गुणैः समायुक्तं मौक्तिक गुणवत् स्मृतम् ॥ १ ॥ ईग्गुणयुक्ता दोषमुक्ता मुक्ता विशदा उच्यते ॥ इतरासां मुक्तानां क्षारपङ्कवसनात् क्षारश्च पङ्कश्च तयोर्वसनात् ॥ खट निश्चितं शुक्तिमगर्व-धवलतागुण क्षीण एव ॥ २२ ॥ दीपिकाः सदसि यन्मणिजालैः, क्रोधिताः स्वमहमा परिभ्य । कुत्फलं शलभकेषु वितेनु-स्ता अढौकयदमुष्य स भूषाः ॥ २३ ॥
(०या०) दीपिका इति । स इन्द्र अमुष्य भगवतो हाराहारकटककेयूर. नक्षत्रमालाधास्ता भूषा ( भौषिभूषिचिन्ति-भ्य. । ५ । ३ । १०९ । इ. सू