________________
१६८) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलकृतम् ॥ सर्गः ५ ।
श्यालकप्रतिकृतिः प्रभुपादां-गष्ठमिष्ट विभवेन्छुरगृह्णात् । पूर्णमेष तमितोऽस्य निरूचे, श्रीगृहांघ्रिकमलाग्रदलत्वम् ॥ १९ ॥
(व्या०) झ्यालक इति । शालकप्रतिकृति शालकवत् प्रतिकृतिर्यस्य सः शालकसदृशः पुमान् इष्टमभोटं विभवं द्रव्यमिच्छतीति इष्टविभवेन्छु (विन्दिप्छू। ५ । २ । ३४ । इ. सू. शीलादिसदर्थे इप्धातोः इच्छुरितिनिपातः ।) सन् प्रभुपादांगुष्टं प्रभोः पादस्य अंगुष्ट-(अङ्गौ शरीरावयवे तिष्टतीति अड्गुष्ठः । स्थापानात्रः कः । ५ । १ । १४२ । इ. सू. अगुपूर्वकस्थाधातो. कप्रत्ययः । इडेतपुसि इ. सू. आलोपः गोऽम्बाऽऽम्बसल्यापद्वित्रि भूम्यग्निशेकुशड्कु कड्गु-स्य । २ । ३ । ३० । इ. स. पत्वम् ) स्तं स्वामिचरणांगुष्ठं अहणात् गृहीतवान् । एप शालकप्रतिकृतिः पूर्ण संपूर्ण तं विभवं इतः प्राप्त. सन् अस्य प्रभुपादांगुष्ठस्य श्रीगृहांघ्रिकमलाबदलत्वं श्रिया लक्ष्म्या 'गृह यत् अम्रिकमल चरणकमलं तस्य अग्रदल निरूचे निश्चितमूचे । कोऽर्थः स्वामिसत्कचरणकमले निश्चितं लक्ष्मीर्वसति । य एकोऽपि एकचित्तः सन् तत् सेवते सलक्ष्मीमवश्यं प्राप्नोत्येव ॥ १९ ॥ पाणिमोचनविधावथ सार्ध-द्वादशास्स पुरतोऽर्जुनकोटीः । वासवः समकिरत् कियदतत् , तस यः करवसच्छतकोटिः ॥२०॥
(व्या०) पाणिमोचन इति ॥ अथानन्तरं बासव' इन्द्र. पाणिमोचनविधौ पाणिमोचनं उदाहस्तस्य विधौ अस्य भगवत पुरतो-(आधादिभ्य । ७ । २ । ८४ । इ स तसुः ।) ऽ द्वादश द्वाभ्यामधिका दश संख्याका अर्जुनस्य सुवर्णस्य काट रस्ता सुवर्णकोटी समकिरत् । तस्य वासवस्य एतत् द्वादशसं. ख्याकं कियत् वर्तते । यो पासव' करवसच्छतकोटि करे हस्ते वसन्ती शतसंख्या कोटिः वा शतकोटिर्वत्रं यस्य सः ईन वर्तते ॥ २० ॥ रोहणाद्रिविलवासितयान्योपक्रियाव्रतमहारि पुरा यैः । तैस्तदा गिरिभिदास वितीर्णैः, स्वीयसृष्टिफलमाप्यत रत्नैः ॥२१॥