________________
श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग: ५ (१६७
पद्मिनी समवलम्बितहस्तो, बभ्रुमभ्रमददभ्रतरार्चिः ।
स प्रदक्षिणतया परितोऽग्निं तं शुचि विबुधवल्लभ गोत्रम् ॥ १७ ॥
,
( व्या० ) पद्मिनी इति ॥ स भगवान् पद्मिनीसमवलम्बितहस्तः पद्मिनीलक्षणाभ्यां पद्मिनीभ्यां सुमंगला सुनन्दाभ्यां समवलंबितो ( कारकं कृता । ३ । १ । ६८ । इ. सू. तृतीयातत्पुरुष । हस्तो यस्य स सन् बभ्रु पीतवर्ण अग्निं ( सर्वोभयाभिपरिणा तसा । २ । २ । ३५ । इ. सू. परितोयोगे अग्निमित्यत्र द्वितीया । ) प्ररित प्रदक्षिणतया अभ्रमत् इति । 'भ्रभूच् अनवस्थाना ने' इति दिवादिधातुः परं - 'भ्रमक्कमक्रमत्रसि त्रुटिलपि यसि संयसे व' इति सूत्रेण विकपत्वात् दिवादे श्यो न भवति । अत्र किं लक्षणो भगवान् अदम्रतराचिः अदम्रतरं बहुतरं अर्चिः तेजो यस्य स । शुचिं पवित्रं किं विशिष्टं अग्निं विवुधवलभगोत्रं विबुधानां देवानां वल्लभं प्रियं गोत्रं नाम यस्य स तं अग्निमुखा वै देवा इति वचनात् । द्वितीयेऽर्थे शुचि सूर्य. विबुधानां देवानां वल्लभं गोत्रं पर्वतं मेरुं प्रदक्षिणतया भ्रमति । किं विशिष्टः सूर्य पद्मिनीभि कमलिनीभि: समबलंबिताः हस्ताः करा यस्य सः । शेषं पूर्ववत् ॥ १७ ॥
यत्तदा भ्रमिरतः परितोऽग्निं, मङ्गलाष्टकरुचिर्विभुरासीत् । कुर्वतेऽस्य पुरतंः किमजस्रं, मङ्गलाष्टकमतो मतिमन्तः ॥ १८ ॥
( व्या० ) यदिति ॥ विभुः (शंसं स्वयं विप्राद् भुवोडुः । ५ । २ ८४ । इ. सू. विपूर्वक भूधातोः डु प्रत्ययः) स्वामी तदा ( किंयत्तत्सर्वेकान्यत्काले दा । ७ । २ । ९५ । इ. सू. कालेऽर्थे तत् शब्दात् दा प्रत्ययः) तस्मिन्नवसरे अग्नि( सर्वोभयाभिपरिणा तसा । २ । २ । ३५ । इ. सू. परितो योगे अग्निमित्यत्र द्वितीया ) मनलं परितः समन्तात् भ्रमिभ्रमणं तस्यां रतः आसक्त' सन् यत् मङ्गलाष्टक रुचिरासीत् । अतः कारणात् मतिरस्ति एपामिति मतिमन्तो विद्वांस अस्य भगवत पुरोऽग्रे क्रिमजस्रं (स्वग्यजस हिंसदीपकम्पकमनमोर । ५ । २ । ७९ । इ. सू शोलादि सदर्थे नञ्पूर्वकजस्धातोः प्रत्य) निरन्तरं मङ्गलाष्टकं कुर्वते ॥ १८ ॥