________________
१६६) श्रीजैनकुमारसमाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५
(व्या०) हेम्नि इति ॥ अनलो वैश्वानरः स्वांगजं स्वस्य अंगजः (अजातेः पञ्चम्याः । ५ । १ । १७० । इ. सू. अङ्गपूर्वक जनधातोर्डः । डिल्यन्त्यस्वरादेः इ. सू अन्त्यास्वरादेलोप• अङ्गात् जातः अङ्गजः । ) पुत्ररतं आत्मीयपुत्रं धूमं प्रभु (लक्षणवीप्स्येत्थम्भूतेष्वभिना । २ । २ । ३६ । इ. सू. प्रभुमित्यत्र अभियोगेद्वितीया) अभि स्वामिसंमुखं किमु एवं प्रष्टुं प्रजिधाय प्रहिणोतिस्म । एकमिति किं हे स्वामिन् हेग्नि सुवर्णे धाम तेजो मदुपाधि मन्निमित्तं वर्तते । मां (विना ते तृतीया च । २ । २ । ११५ । इ. सू. मामित्यत्र विनायोगे द्वितीया) विना ते तव वधु हैमं सुवर्णमयं शरीरं कथमदीप्यत ॥ १४ ॥ सोऽभितः प्रसृतधूमसमूहा-श्लिष्टकाञ्चनसमद्युतिदेहः । स्वां सखीमकृत सौरभलुभ्य-भृगसंगमितचम्पकमालाम् ॥ १५॥
(व्या०) स इति । स भगवान् अभित समंततः प्रसृतधूमसमूहाश्लिष्ट कांचनसमद्युतिदेह. प्रसतेन धूमानां समूहेन आश्लिष्ट आलिंगित काञ्चनस्य समा द्युतिर्यस्य देहो यस्य स. एवंविधः सन् सौरभलभ्यद्भगसंगमितचम्पकमालां सौरभेग (प्रज्ञादिभ्योऽण् । ७ । १६५ । इ. सू. सुरभिशब्दात् स्वार्थेऽण् ।) परिमलेन लुभ्यन्तश्चते भंगाश्च ते. संगमिता मेलिता चम्पकपुष्पाणां माला तां स्वां सखीमकृत । एतावता गौरवर्णत्वात् चम्पकमालासहशो भगवतो देहः तत्र लमो धूमश्च भ्रमरसहसदृश । एवं भगवतोदेहत्य चम्पकपुष्पमालायाश्च सरवीत्वं सादृश्यं ज्ञेयमितिभाव ॥ १५ ॥ धृभराशिरसितोऽपि चिरंथ्यो, लौहितत्वमतनोनयनानाम् । चूर्णकश्च धवलोऽपि रदानां, रागमेधयति रागिषु सर्वम् ॥ १६ ॥
(व्या०) धूमरा चिरिति ॥ असितोऽपि कृष्णोऽपि धूमराशि. धमानां राशि समूहः चिरंट्यो (टिण्टश्चर् च वा । १५० । इ. उ. सू. चिरर्धातो. इण्ट प्रत्ययः ।) वधूट्योनयनानां सोचनानां लोहितत्वं आरतवमतनोत् तनोति स्म । च पुनर्धवलोऽपि चूर्णको रवानां दन्तानां लोहितत्वमारतत्वमतनोत् कृतवान् । रागिषु रागवत्सु सर्व वस्तु रागमेधयति पयति ॥ १६ ॥