________________
१६४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५
(व्या०) तत्यजुरिति । परस्य श्रीपभस्य च तयोर्वयोः दृशोदृष्टयः स्वामात्मीयां धीरतां च चलतां समयागतताराभेलपर्वणि समये अवसरे आगतं यत् ताराणां मलनं कनीनिकामेलनं तस्य पर्व उत्सवस्तस्मिन् न तत्यजुः । हि निश्चित देहिनां प्राणिनां सहजं (कचित् । ५ । १ । १७१ । इ. सू. जनधातोर्डः । सहजातं सहजम् ) दुरपोहं (दुःस्वीपत: कृप्छाकृार्थात् खल् । ५-३-१३९ इ सू कृच्छ्रार्थ दु पूर्वक अपपूर्वक ऊहधातोः खल) दुस्त्यजम् ॥ ८ ॥ स्वर्वधूविहितकौतुकगानो-पज्ञमस्य वपुषि स्तिमितत्वम् ।। योगसिद्धिभवमेवमधोना-शंकि वेद चरितं महतां कः ॥ ९॥
(व्या०) स्वर्वधू इति । मघोना इन्द्रेण अस्य भगवतो वपुपि शरीरे स्तिमितत्वं निश्चलत्वं योगसिद्धिभवमेव योगसिद्धः समुत्पन्नमेव आशंकि शकितम् । कि लक्षणं स्तिमितत्वं स्वर्वधूविहितगानोपचं स्वर्वधूभिर्विहितं कृतं यत् कौतुकगानं तेन उपझं प्रणीतं महतां चरितं को वेद को जानाति अपि तु न कोऽपि ॥ बद्धवान् वरवधूसियाना-मंचलान स्वयमथाशु शचीशः। एवमस्तु भवतामपि हार्द ग्रन्थिरश्लथ इति प्रथितोक्तिः ॥१०॥
(व्या०) बद्धवान् । अथानन्तरं शचीशः इन्द्रः वरवधूसिचयानां वरश्च वधू च वरवध्वः तासां सिंचयानि वस्त्राणि तेषां अञ्चलान् आशु शीव स्वयं बद्धवान् । किं लक्षण इन्द्र इति प्रथितोक्ति' इति अमुना प्रकारेण प्रथिता विस्तारिता उक्तिर्वचनं येन स । इति किं एवममुना प्रकारेण भवतामपि हार्दप्रन्थिः हादस्य (पुरुषहृदयादसमासे । ७ । १ । ७० । इ. सू. हृदयस्य हद् आदेश । वृद्धिः स्वरेवादे णिति तद्धिते । ७-४-१ । इ. सू. आदि स्वरवृद्धि हृदयस्यभावो हादें) स्नेहस्य ग्रन्थिः अश्लथः न श्लथ अश्लथ ढोऽस्तु ॥१०॥ एणद्वयमुदस्य मधोनी, पासवश्च वरमद्धतरूपम् । वेदिका मनयता हरिदुच्च-शसंकलितकाञ्चनकुंभाम् ॥११॥
(व्या०) एणम् इति ॥ मधोनी इन्द्राणी एणद्वयं शोनत्रयोदय युगलं एणस्य मृगस्य इन्द्रयमिव द्वयं अस्य तत् ववोर्द्वयं वधूयं कन्यायुग्म