________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५ (१६३
करस्तस्मिन् करशये करशते इति करशस्तस्मिन् हस्तस्थिते सति हि निश्चित सात्विको भगवान् निजभाव निजाय भावन्तं स्वेषु आत्मीयेषु संक्रमयते । अत्र न चित्रं न आश्चर्यम् । सावेन धैर्येण चरतीति सात्विकः । (चरति । ६-४-११ । इ सू सत्त्वशब्दात् चरत्यर्थे इकण् ।) पक्षे सात्त्विका भावाः पूर्वोक्ताः । सात्विकोहि सात्त्विकं भाव मन्यत्र संक्रमयतीति अत्र किं चित्रम् । शब्दप्छलमत्र ज्ञेयम् ॥५॥ बाल्ययौवनवयो वियदन्त-वर्तिनं जगदिनं परितस्ते । रेजतु गतघनेऽहनि पूर्वा-पश्चिमे इव करोपगृहीते ॥६॥
(व्या०) बाल्येति ॥ ते कन्ये करोपगृहीते करेण पाणिना उपगृहीते गृहीतहस्ते जगदिनं (सौभयाभि परिणा तसा । २ । २ । ३५ । इ. सू. परितो योग जगदिनमित्यत्र द्वितीया) जगतामिन स्वामी तं जगन्नाथं परितो रेजतु शोभिते । किं लक्षणं जगदिनं वाल्ययोवनवयोवियदन्तवर्तिन (प्रहादिभ्यो णिन् । ५ । १ । ५३ । इ. सू वृत् धातोर्णिन् ।) बाल्यं च यौवनं च वयः एव वियत् आकाशं तन्मध्ये वर्तते तं । के इव पूर्वापश्चिमे इव पूर्वा च पश्चिमा च पूर्वापश्चिमे यथा पूर्वापश्चिमे दिशौ करोपगृहीते किरणोपगृहीते गधिने गताः धना यस्मिन् तत् तस्मिन् निरभ्रे अहनि दिवसे इनं सूर्य परितो राजते ॥ ६ ॥ पाणिपीडनरतोऽपि न पाणी-बालयोः समृदुलावपिपीडित् ।। कोऽथवा जगदलक्ष्य गुणस्या-मुष्य वृत्तमवबोधुमधीष्टे ॥ ७॥
(०या०) पाणिपीडनेति ॥ स भगवान् पाणिपीडनस्तोऽपि पाणिपीडन पाणे पीडनं पाणिग्रहणं तस्मिन् रत: आसक्तः अपि बालयोः सुमंगलासुनन्दयोः मृदुलौ सुकोमलो पाणी हस्तौ न अपिपीडत् न पीडितवान् । अथवा कः पुमान्
जगदलक्ष्यगुणस्य जगतां अलक्ष्या (यए चात । ५-१-२८ । इ सू. लक्षधातोः , यः लक्षितुं योग्याः लक्ष्या') गुणा यस्य स जगदलक्ष्यस्वरूपस्य अमुष्य भगवतो वृत्तं चरित्रं अवबोधुं ज्ञातुं अधीष्टे समर्थो भवति अपि तु न कोऽपि ॥ ७ ॥ तत्यजुन समयागततारा-मेलपर्वणि वरस्य तयोश्च । धीरतां च चलतां न दृशः स्वां, देहिनां हि सहजं दुरपोहम् ॥ ८॥