________________
१६२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५ वामनामनि करे स्फुरणं यत् , कन्ययोः शुभनिमित्त मुदीये । तत्फलं प्रभुकरग्रहमाप-दक्षिणः क्षणफलः कनु वामः ॥३॥
(व्या०) वामनामनि इति ॥ कन्ययो. वामनामनि वामो नाम यस्य स । तस्मिन् करे हस्ते स्फुरणं यत् शुभनिमित्त दीये उदितम् 'अङ्ग विस्फुरणं नृणां, दक्षिणं सर्वकामदम् । तदेव शस्यते सद्भिनारोणामप्रदक्षिणम्, इति निमित्तशास्त्रात् । दक्षिणः करोहरतः तत्फलं तस्य शुभनिमित्तस्य फलं तत् प्रभुकरग्रह प्रभोः स्वामिनः करोहस्तस्तस्यग्रहं स्वामिपाणिग्रहणं आपत् प्राप्तः । इति वितर्क वाम. क्षणफल. उत्सवफल• क वर्तते । वामो वामोहस्तः प्रतिकूलो वा यः प्रतिकूल: स्यात् स उत्सवफलं क प्राप्नोति अपि तु न कापीत्यर्थः ॥ ३ ॥ उत्तराधरतयादधदास्थां, तत्करेवरकरः स्फुटमूचे । अव्यवस्थमघरोत्तरभावं, योग्यभाजि पुरुषे प्रकृतौ च ॥ ४॥
(व्या०) व्यवस्था उत्तरेति ॥ चरकर' वरस्य करो हस्तः स्वामिहस्त तत्करे तयोः सुमंगलासुनन्दयो. कर तस्मिन् उत्तराधरतया आस्थां (उपसर्गादातः ५ । ३ । ११० । इ. सू. आपूर्वक स्थाधातो अड् । आत् इ. सू. अआप् । ) अवस्थितिं दधत् सन् अधरोत्तरभावं अध स्थोपरिस्थतया अवस्थानं पुरुषे आत्मनि च अन्यत् प्रकृतौ कर्मणि योगभाजि सति सत्यां च अव्यवस्थं व्यवस्थारहित स्फुटं प्रकटभूचे वक्ति स्म । 'कत्थइ जोवो बलिओ कत्थवि कम्माई हुंति वलियाइ' । इत्याचागमवचनात् ॥ ४ ॥ तत्करे करशयेऽजनिजन्योः, संचरे सपदि सात्विकभावः। . सात्विको हि भगवानिजभावं, स्वेषु संक्रमयतेऽत्र न चित्रम् ॥ ५ ॥
(व्या०) तत्कर इति ॥ जन्योर्वध्वोः संचरे (गोचर संचरवहनज-म् । ५ । ३ । १३१ । इ. सू पुनाम्निधान्तोनिपातः । संचरति अनेनेति संचर:) गरीरे सपदि शीघ्रं तत्कालं सात्विकभावै रजनि जातम् । सात्विकभावाश्चामी स्तंभ १ स्वेदो २ ऽथरोमाञ्च ३ स्वरभेदश्च ४ वेपथुः ५ ॥ वैवर्ण्य ६ रोदनं ७ चैवा वेष्टातेत्यष्ट सात्विका' ॥ १ ॥ कसति तत्करे तस्य स्वामिन करस्त