________________
अथ पञ्चमः सर्गः प्रारभ्यते ॥
पत्रिणा द्रुतमयोजि कराभ्यं, कन्ययोरथ कर: करुणाब्धेः। तस हृत्कलयितु सकलाङ्गा-लिंगनेऽपि किलकौतु किनेव ॥ १॥
(व्या०) वज्रिणा इति ॥ अथानन्तरं वज्रिणा (अतोऽनेकरवरात् । ७ २ । ६ । इ. सू. मत्वर्थे वज्रशदात् इन् वज्रोस्यास्तीति वज्रो।) इन्द्रेण करुणाधे करुणायाः अधि (उपसर्गाद: किः । ५ । ३ । ८७ । इ. सू. आप्पूर्वक धाधातो: किः । इडेत् पुंसि चातो एक इ. सू. आकारलोप• धुटस्तृतीयः । २ । १ । ७६ । इ. सू आप् शब्दस्यपकारस्य तृतीयो ब. आपो धीयन्तेऽस्मिन्निति अब्धिः ।) तस्य परदुःखनिरासनी भवेत् करुणा तस्याः समुद्रस्य भगवतः करो हस्त: कन्ययो. सुमंगलासुनन्दयोः कराभ्यां सह द्रुतं शीघ्रमयोजि योज्यते स्म । कि लक्षणेन वज्रिणा उप्रेक्ष्यते-सकलांगालिंगनेऽपि सकलं च तत् अंग च सकलाङ्गं तस्य आलिंगनं तस्मिन् सत्यपि तस्य भगवतो हृत् हृदयं कलयितुं कौतुकिनेच कौतुकमस्यास्तीति तेन ॥ १ ॥ धावता माभिमुखं समवेत्तुं, तत्करस्य च वधूकरयोश्च ।। अंगुलीयकमणिघृणिजालैः, प्रष्ठपत्तितुलया मिमिले प्राक् ॥ २॥ ___(०या०) धावतामिति । तत्करस्य तस्य स्वामिन. करो हस्तस्तस्य स्वामिकरस्य च वधूकरयो वयो करौ तयोः अभिमुखं सन्मुख समवेतुं मिलितुं धावतां सतां प्राक् पूर्व अंगुलीयकमणीघृणिजालैः अंगुलीयकस्य (जिह्वामूलाड्गु • लेक्चे य । ६ । ३ । १२७ । इ. सू. अड्गुलिशब्दात् भवे ईय. अड्गुल्यां भवानि अड्गुलीयकानि । स्वार्थेके अड्गुलीयकं) मुद्रिकाया मणयो रत्नानि तेषां घृणयो किरणास्तेषां जालानि समूहास्तै किरणसमूहै. प्रष्टपत्तितुलया (प्रष्टोऽग्रगे २ । ३ । ३२ । इ. सू. प्रपूर्वक स्थाधातो सस्य धत्वं । ) ४श्चासौ पत्तिश्च तस्य तुलया अग्रेसरपदातिसदृशतया मिमिले मिलितम् ॥