________________
१५८) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४
( व्या० ) लावण्य इति ॥ ते कन्ये अपृथुस्वरं मन्दस्वरं यथा भवति तथा मिथः परस्परमेवं अकथयताम् । एवमिति किं अमुष्मात् दयितात् भर्तुः सरसः सरोवरात् लावण्यवारि लावण्यमेव वारि जलं प्रकाशं प्रकटं पातुं नौ आवयोर्नयनद्वयं नयनयोर्द्वयं लोचनयुगलं समर्थ न । इह चौरिकया (चोरादेः । ७ । १ । ७३ । इ. सू. चोरशब्दात् भावे अकञ् चोरस्य भावः चौरिका । अस्यायत्तत् क्षिपकादीनाम् । २ । ४ । १११ । इ. सू. अस्य इ: ।) च पानेन काचित् तृप्तिर्न ॥ ७७ ॥
शैशवावधि वधूद्वयदृष्टयो -- श्वापलं यदभवद्दुरपोहम् । तत्समग्रमुपभर्तुर्विलिल्ये, अध्यापकान्तिक इवान्तिषदीयम् ॥ ७८ ॥
:
( व्या० ) शैव इति || वधूवयदृष्ट्यो वध्वोर्द्वयस्य दृष्टट्योः शैशवावधि (वर्णावादेः । ७ । १ । ६९ । इ. सू. शिशुशब्दात् भावे कर्मणि च અણ્ शिशोर्भाव: शैशवं ) बाल्यादारम्य यत् चापलं दुरपोहं दुस्त्यजं अभवत् तत् चापलं ( चपलस्य भावः चापलं युवादेरणू । ७ । १ । ६७ । इ. सू. चपलशब्दात् भावे कर्मणि अण् । ) समग्रं उपभतृ भर्तुः समीपे विलिल्ये विलयं गतम् । किमिव आन्तिषदीयं चापलमिव यथा छात्रसत्कं चापलं अध्यापकान्तिके अध्यापकस्य अन्तिकं तस्मिन् उपाध्यायसमीपे विलयं याति ॥ ७८ ॥
तारुण्येन प्रतिपतिमुखं प्रेरितोन्मादभाजा; बाल्येनेषत्परिचयजुषा जिल्ह्यातां नीयमाना । दृष्टिर्वयोः समजनितरामे हिरेयाहिरातः,
श्रान्तेः पात्रं न हि सुखकरः सीमसंघौ निवासः ॥ ७९ ॥
( व्या० ) तारुण्येन इति ॥ वयोर्दृष्टि एहिरेयाहिरात: आगमनतः श्रान्ते. श्रमस्य पात्रं स्थानं समजनितराम् । किंलक्षणा दृष्टिः उन्मादभाजा ( भजो विणू । ५ । १ । १४६ । इ. सू. उन्मादपूर्वकभज् धातोः विण् । ञ्णिति । ४ । ३ । ५० । इ. सू. उपान्त्य अकारस्य वृद्धि ) उन्मादं भजतीति तेन